पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८७

पुटमेतत् सुपुष्टितम्
[अन्वाधानसमिद्धोमः]
८३
संस्काररत्नमाला ।
( आत्मन्यग्नेर्ग्रहणम्)
 

कर्तरि । आचार्ये कर्तरि तु यक्ष्यामि यष्टास्मीत्येवं प्रयोगः । सूत्रानुक्तत्वात्प्रायश्चित्तहोमसंस्रावहोमाकरणपक्षे नैतयोरुल्लेखः ।

 ततः समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती, अन्वाधानसमिदाधाने विनियोगः-- "ॐ भूर्भुवः सुवः" इत्यन्वाधानसमिधोऽग्नावादध्यात् । स्वाहाकारमप्यत्रेच्छन्ति केचित् । अस्मिन्पक्षे प्रजापतय इदं न ममेति त्यागः । स्थूलसमित्त्रयमादायेत्यारभ्य समिदाधानान्तं कर्माऽऽचारप्राप्तं शिष्टैः परिगृहीतत्वाल्लिखितम् ।

 ततोऽग्निक्षेत्रात्तद्बाह्यमेखलातो वा बहिः समन्ताद्दशाङ्गुलमितं पञ्चाङ्गुलमितं वा स्थलं त्यक्त्वा प्रागादिदिक्षु प्रागग्रैर्दभैः परिस्तृणाति । ह्रस्वा उदगपवर्गाः पश्चात्पुरस्ताच्च भवन्ति । अथवा पुरस्तात्पश्चाच्चोदगग्रा दर्भाः । दक्षिणत उत्तरतश्च प्रागग्राः । पौरस्त्यपाश्चात्यपरिस्तरणद[१]र्भमूलानामुपरि दक्षिणपरिस्तरणम् । उत्तरपरिस्तरणं तु तदग्राणामधस्तात् । परिस्तरणे चत्वारश्चत्वारस्त्रयस्त्रयो वा दर्भाः । प्रागग्रपरिस्तरणपक्षे त्वपरिमिता एव । प्रागुदगग्रपक्ष एवायमधरोत्तरभावः ।

 ततो दक्षिणेनाग्निं ब्रह्मायतने दर्भान्बहुलान्प्रागग्रान्स्तृणाति । आचार्यस्य होमकर्तृत्वे यजमानोपवेशनार्थमपि ब्रह्मायतनस्य पश्चादासनं[२] कल्पयति । ततो मायि गृह्णामि यो नो अग्निरिति द्वयोरग्निरग्निस्त्रिष्टप्, आत्मन्यग्निग्रहणे विनियोगः-- "ॐ मयि गृह्णाम्यग्रे अग्नि ० परागात्" इति द्वाभ्यामात्मन्यग्निं गृह्णीते । आत्मन्यग्निर्गृहीत इति विभाव्य जपतीत्यर्थः ।

 ततोऽग्नेरुत्तरतः समीप एवोदगग्रान्दर्भान्संस्तीर्य तेषु यथाप्रयोजनं साधारणानि वैशेषिकाणि पात्राणि द्रव्याणि च सकृदेव यथोपपादं वाऽऽसादयेत् । तत्र यज्ञियदर्भाणामग्रभागं प्रादेशमात्रं बर्हिरर्थं प्रच्छिद्याप उपस्पृश्य त्रिधातुना पञ्चधातुना वा शुल्बेन तद्बद्ध्वा पात्रेष्वासादयेत् ।

 ततो विषमसंधिमत्समसंधिमद्वा प्रदक्षिणं शुल्बं कृत्वा तदुदगग्रं वितत्य तेन पालाशं खादिरं वैकविंशतिदारुकमिध्मं बद्ध्वाऽऽसादयेत् । अथवा दर्व्यासादनात्प्रागिध्माबर्हिषोः संनहनमनधोनिधानं च कृत्वाऽवज्वलनदर्भासादनात्प्रागेतयोः पात्रेष्वासादनं कुर्यात् । तत्रेध्मस्त्रिभिः परिधिभिः सहैकविंशतिदारुको भिन्नपरिधिक आहुतिसंख्याकदारुको वाऽरत्निमात्रः


  1. ग. ध. ङ. दर्भाणामु ।
  2. ग. सने क ।