प्रादेशमात्रो वा । परिधयः शम्पाकृतिकाः शुष्का आर्दा वा यस्य कस्यचिद्यज्ञियस्य वृक्षस्य । अत्रैव परिधीनां शम्याकृतित्वसंपादनम् । तत्र मध्यमः परिधिर्बाहुमूलमारभ्यानामिकाग्रान्तप्रमाणः । बाहुमूलमारभ्य मध्यमाग्रान्तप्रमाणो मध्यमात्सूक्ष्मश्च दक्षिणः । बाहुमूलमारभ्य कनिष्ठाग्रान्तप्रमाणो दक्षिणात्सूक्ष्मश्चोत्तरः । अथवा सर्वेऽपि समप्रमाणाः कार्याः । संस्पर्शस्तूभयपक्षेऽप्यावश्यकः । एतच्च परिमाणमरत्निमात्रायतनविषयम् । अधिके[१] तु दक्षिणपरिस्तरणानामुपरि मूलमुत्तरपरिस्तरणानामुपर्यग्रं यावता परिमाणेन भवति तावत्परिमितः पश्चिमपरिधिः । इतरौ तु तदनुरोधेन ।
ततोऽग्न्यायतनादी(दै)शान्याममुकप्रवरान्वितामुकगोत्रोत्पनामुकशाखाध्यायिनममुकशर्माणममुककर्मणि ब्रह्माणं त्वामहं वृण इति कर्मकुशलं ब्रह्मिष्ठं ब्रह्माणं यजमानो वृणुयात् । ब्रह्मा वृतोऽस्मि कर्म करिष्यामीत्युक्त्वा यज्ञोपवीती द्विराचम्योत्तरेण पात्राणि गत्वाऽग्निहोमकर्त्रोर्मध्येन दक्षिणेन[२] पादेन दक्षिणाऽतिक्रम्योपवेशनार्थमास्तृतेभ्यो दर्भेभ्यस्तृणमुत्तरतो निरस्याप उपस्पृश्याग्निमभिमुख उपविशति । इत आरभ्य कर्मकाले वाग्यतः कर्ममना भवेत् । यदि वाग्यमलोपस्तदा "इदं विष्णुः" इति [३]वैष्णव्यृग्जपं "भूर्भुवः सुवः" इति समस्तव्याहृतिजपं च कुर्यात् । यस्मिन्कर्मणि होमार्थमन्यो वृतो भवति तत्र यजमानोऽपि ब्रह्मण्युपविष्टे तस्य पश्चाद्भागे होमकर्त्रा कल्पितादासनात्तृणं निरस्याप उपस्पृश्याग्निमभिमुख उपविशेत् । ब्रह्मालाभे तदासने छत्रं कूर्चं यज्ञोपवीतं दण्डं कमण्डलुं वा स्थापयेत् । ततो भूमौ काष्ठं तृणं वाऽन्तर्धाय समौ साग्रावन्तर्गर्भरहितौ दर्भावग्रे प्रादेशमात्राववशेषयन्धृत्वा तत्र काष्ठेनासिदेन वा छिनत्ति न नखेन । अप उपस्पृश्य तयोर्मूलमारभ्याग्रपर्यन्तं सोदकेन हस्तेनानुमार्ष्टि । ततः प्रणीतापात्रं गृहीत्वा त्रिः प्रक्षाल्य प्रागग्रे पवित्रे तस्मिन्निधाय किंचिदुदकमानीय पृथिवी करणत्वेन ध्यायन्पुनरुदकेनोपबिलं पूरयित्वाऽङ्गुष्ठोपकनिष्ठिकाभ्यामुदगग्रे सग्रन्थिके पवित्रे धृत्वोत्तानाभ्यां प्रागग्राभ्यां पाणिभ्यां प्रणीतापात्रस्था अपस्त्रिरुत्पूय सव्यपाणिना प्रणीतापात्रं धृत्वा दक्षिणेन तत्पात्रमपिधाय नासिकासमं धारयन्नस्कन्दयन्नुत्तरेणैव हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वोदगग्रैर्दर्भैरपिदधाति । ततस्ते पवित्रे[४] अप्रक्षालिते एव प्रोक्षणीपात्र[५] उदगग्रे निधाय