वार्षिका मताः । पार्वणं श्राद्धं मासि कर्तव्यम् । अशक्तानां वार्षिकम् । अशक्तैर्वर्षे यस्यां कस्यांचिदमायां कर्तव्यमित्यर्थः । एतस्मादेव वचनान्मासिकं पार्वणं प्रोक्तमित्यत्र प्रतिदर्शं कर्तव्यताऽवगता भवति ।
स्पष्टमेतदुक्तं स्मृत्यन्तरे--
"प्रतिदर्शं पार्वणं स्यादशक्तौ वार्षिकं भवेत्" इति[१] । |
पार्वणस्थालीपाकस्तु पर्वणि पर्वण्येव ।
याज्ञवल्क्य:--
"ब्रह्मक्षत्त्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । |
निषेको गर्भाधानम् । श्मशानशब्देनान्त्यकर्म लक्ष्यते । तेषां द्विजानाम् । तेषां मंत्रत इत्युक्तेः शूद्रस्यामन्त्रका इति गम्यते ।
संस्कारानुक्त्वाऽऽह यमः--
"शूद्रोऽप्येवंविधः कार्यो विना मन्त्रेण संस्कृतः" इति । |
तत्र शूद्रस्य वेदाध्ययनाद्यभावात्तदर्थोपनयनकाण्डव्रतादीनां निवृत्तिः । जातकर्माद्याः क्रियाः स्त्रीणाममन्त्रकाः ।
"तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः" इति स्मृतेः । |
एता जातकर्मादिचूडान्ताः । होमोऽपि द्विजानामेव ।
"गार्भैर्होमैर्जातकर्मचूडामौञ्जीनिबन्धनैः । |
इति मनुवाक्ये द्विजग्रहणात् । बीजं शुक्रशोणिते तत्संबन्धि निषिद्धकालमैथुनादिप्रयुक्तं बैजिकम् । अशुचिगर्भकोशस्थितिजं गार्भिकम् । तदपगच्छतीति कुल्लूकभट्टः । बीजगर्भयोः पापनिमित्तत्वाभावादुभयसंसर्गादशुचित्वमात्रमेनःशब्दार्थो न तु पापमिति तु मेधातिथिः ।
विज्ञानेश्वरस्तु--
"एवमेनः शमं याति बीजगर्भसमुद्भवम्" |
इत्येतद्व्याख्याने व्याधिसंक्रान्त्यादिनिमित्तमेनो न तु पतितोत्पन्नत्वादीत्याह ।
- ↑ क. ख. ति । या ।