पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/९१

पुटमेतत् सुपुष्टितम्
[अग्निमुखप्रयोगः]
८७
संस्काररत्नमाला ।

 कुर्वन्ति तद्बहिरग्न्यायतनतद्दण्डप्रविष्टतदग्न्यवयवनाशादिदूषणापत्तेरन्याय्यम् । इत्यद्या रावाघार्य--

 अग्नये स्वाहा सोमाय स्वाहे[१]त्यनयोर्वामदेव ऋषिः, अग्निः सोम इति क्रमेण देवते, यजुषी, आज्य[२]भागहोमे विनियोगः-- अग्नये स्वाहा । अग्नावुत्तरार्धपूर्वार्धे जुहोति । अग्नय इदं० । सोमाय स्वाहा । अग्नौ दक्षिणार्धपूर्वा[३]र्धे जुहोति । इत्याज्यभागौ हुत्वा तावन्तरेणेतरा आहुतीस्तत्तत्कर्मविहितजिह्वायां ज्वालामध्य एव वा जुहोति । युक्तो वहेत्यस्य वामदेवो जातवेदा अग्निस्त्रिष्टुप्, या तिरश्चीत्यस्य वामदेवः स राधन्यनुष्टुप्, स राधन्यै देव्यै स्वाहा प्रसाधन्यै देव्यै स्वाहेत्यनयोर्वामदेव ऋषिः सा राधनी देवी प्रसाधनी देवीति क्रमेण देवते यजुषी, सामान्यप्रधानाज्यहोमे विनियोगः-- "युक्तो वह जातवेदः० नेम स्वाहा" जातवेदसेऽग्नय इदं० । "या तिरश्ची० नीं यजे स्वाहा" स राधन्या इदं० । "स राधन्यै देव्यै स्वाहा" स राधन्यै देव्या इदं० । "प्रसाधन्यै देव्यै स्वाहा" प्रसाधन्यै देव्या इदं० । व्यस्तानां व्याहृतीनामग्निर्ऋषिः समस्तव्याहृतीनां प्रजापतिर्ऋषिः, अग्निवायुसूर्यप्रजापतयः क्रमेण देवताः, गायत्र्युष्णिगनुष्टुब्बृहत्यश्छन्दांसि, सामान्यप्रधानहोमे विनियोगः-- "ॐ भूः स्वाहा" अग्नय इदं० । "ॐ भुवः स्वाहा" वायव इदं० । "ॐ सुवः स्वाहा" सूर्यायेदं० । "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० ।

 ततस्तत्तत्कर्मणो वैशेषिकप्रधानहोमं कुर्यात् ।

 तत उत्तराण्यङ्गानि । इमं मे वरुणेत्यनयोर्विश्वे देवा ऋषयो वरुणो देवता प्रथमस्य गायत्री छन्दः, द्वितीयस्य त्रिष्टुप् । त्वं नो अग्न इति द्वयोर्विश्वे देवा ऋषयः । अग्निर्वरुणश्च देवता त्रिष्टुप्छन्दः । त्वमग्ने अयासीत्यस्य विश्वे देवा अया अग्निरनुष्टुप् । प्रजापत इत्यस्य प्रजापतिर्विश्वे देवा वा प्रजापतिस्त्रिष्टुप् । उत्तराङ्गहोमे विनियोगः-- "ॐ इमं मे वरुण० चक्रे स्वाहा " वरुणायेदं० । "ॐ तत्त्वा यामि० मोषीः स्वाहा" वरुणायेदं० । "ॐ त्वं नो अग्ने० स्मत्स्वाहा" अग्नये वरुणाय चेदं० । "ॐ स त्वं नो० न एधि स्वाहा" अग्नये वरुणाय चेदं० । "ॐ त्वमग्ने अ० षज स्वाहा" अयसेऽग्नय इदं० । प्रजापते० यीणा स्वाहा" प्रजापतय इदं० । इत्यङ्गहोमः ।

 जयोपहोममन्त्राणां विश्वे देवा लिङ्गोक्ता देवता यजूंषि, उत्तराङ्गभूतजयोपहोमे विनियोगः-- "ॐ चित्तं च स्वाहा" चित्तायेदं० । "ॐ चित्तिश्च स्वाहा"


  1. ग. ध. ड. हेति द्वयोः ।
  2. क. थ्यहो ।
  3. ग. घ. ड. र्धे । इ ।