पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/९४

पुटमेतत् सुपुष्टितम्
९०
[प्रायश्चित्तहोमः]
भट्टगोपीनाथदीक्षितविरचिता--

स्तृतं बर्हिश्चाऽऽदाय दर्व्यामग्राण्यनक्ति, मध्यानि मूलानि चाऽऽज्यस्थाल्याम् । एवं द्वितीयम् । तृतीयं तु मूलानि मध्यानि चाऽऽज्यस्थाल्याम्, अग्राणि दर्व्यामिति । एवमङ्क्त्वैकं तृणमक्तेभ्यस्तृणेभ्य उपादाय प्रज्ञातं निधायान्यानि दक्षिणोत्तराभ्यां पाणिभ्यामुत्तरपरिधिसंधिमनुप्रवेश्य नातिक्रान्ताग्न्यग्राण्यनूर्ध्वाग्राण्यङ्गारेष्वभर्जयंस्तदग्राणीषदृजुं हस्तं धारयन्नूर्ध्वमुद्यम्य ततो न्यञ्चमधोऽध आनीयाधरोत्तरावयवभावेनान्तत आयतने पर्यावर्तयति । ततस्त्रिरूर्ध्वमायतन एवाञ्जलिना नीत्वाऽग्नौ क्षिपति । ततः स्थापिततृणं प्रहृत्य त्रिरङ्गुल्याऽन्ववदिश्य घ्राणे युगपत्संस्पृश्याप उपस्पृश्य तथैव चक्षुषी संस्पृश्याप उपस्पृश्य पृथिवीं संस्पृशेत् । ततो मध्यमं परिधिमग्नौ प्रहृत्येतरौ परिधी द्वाभ्यां हस्ताभ्यां सहैव प्रहरति । अवाञ्चमुत्तरस्याग्रमङ्गारेषूपोहति ।

ततः प्रायश्चित्तहोमः ।

 अनाज्ञातमितिमन्त्रत्रयस्य विश्वे देवा ऋषयोऽग्निर्देवताऽऽद्ययोरनुष्टुबन्त्यस्य त्रिष्टुप् । त्वं नो अग्न इति द्वयोर्विश्वे देवा अग्निर्वरुणश्च त्रिष्टुप् । यत इन्द्रेतिद्वयोर्विश्वे देवा ऋषयः । इन्द्रो मघवान्प्रथमस्य देवता । वृत्रहेन्द्रो द्वितीयस्य । आद्यस्य बृहती द्वितीयस्यानुष्टुप् । त्र्यम्बकमित्यस्य विश्वे देवास्त्र्यम्बकोऽनुष्टुप् । इदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । सप्तानां व्याहृतीनां याज्ञिक्यो देवता उपनिषद ऋषयः । अग्निर्वायुः सूर्यो बृहस्पतिर्वरुण इन्द्रो विश्वे देवा इति क्रमेण देवताः । गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तित्रिष्टुब्जगतीति क्रमेण च्छदांसि । प्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ अनाज्ञातं० तथ स्वाहा" अग्नय इदं० । "पुरुषसंमितो० थ स्वाहा" अग्नय इ० । "ॐ यत्पाकत्रा म० जाति स्वाहा" अग्नय इदं० । "ॐ त्वं नो अग्ने० स्मत्स्वाहा" अग्नये वरुणाय चेदं० । "ॐ सत्वं नो अ० एधि स्वाहा" अग्नये वरुणाय चेदं० । "ॐ यत इन्द्र भ० जहि स्वाहा" इन्दाय मघवत इदं० । "ॐ स्वस्तिदा वि० करः स्वाहा" इन्द्राय वृत्रघ्न इ० । "ॐ त्र्यम्बकं यजा० तात्स्वाहा" त्र्यम्बकायेदं० । "ॐ इदं विष्णु० सुरे स्वाहा" विष्णव इदं० । "ॐ भूः स्वाहा" अग्नय इ० । "ॐ भुवः स्वाहा" वायव इदं० । ॐ सुवः स्वाहा" सूर्यायेदं० । "ॐ महः स्वाहा" बृहस्पतय इदं० । "ॐ जनः स्वाहा" वरुणायेदं । "ॐ तपः स्वाहा" इन्द्रायेदं० । "ॐ सत्य स्वाहा" विश्वेभ्यो देवेभ्य इदं० ।