पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/९६

पुटमेतत् सुपुष्टितम्
९२
[पूर्णपात्रलक्षणम्]
भट्टगोपीनाथदीक्षितविरचिता--

प्रतिग्रहणम् । अधोवायोर्नमनमपाननम् । प्रतिग्रहमन्त्रगतद्रव्यदेवतायै प्रतिग्रहणं नाऽऽत्मन इति संकल्पो व्यावृत्तिः ।

 प्रतिनिधित्वेन हिरण्यदाने तु यदीयप्रतिनिधित्वेन दानं तस्य मन्त्रः । निष्क्रयपक्ष उत्तानस्त्वेति प्रतिग्रहः । सर्वेषां तूष्णीमेव वा प्रतिग्रहः । अस्मिन्कल्पे नापाननम् । गोप्रतिग्रहे तस्यै तृणप्रदानं च नास्ति । व्यावृत्यप्रतिग्रहणमपि न भवति । भवतीति केचित् । सर्वत्र प्रतिग्रह आग्नेयतीर्थेनैव । "आग्नेयेन प्रतिग्रहं कुर्यात्" इति बौधायनोक्तेः । "करमध्य आग्नेयम्" इत्याग्नेयतीर्थलक्षणमुक्तं तेनैव ।

 पूर्णपात्रलक्ष[१]णमुक्तं सुदर्शनभाष्ये--

"अष्टमुष्टि भवेत्किंचित्किंचिच्चत्वारि पुष्कलम् ।
पुष्कलानि तु चत्वारि पूर्णपात्रं प्रचक्षते" इति ॥
"अष्टमुष्टि भवेत्किंचित्किंचिदष्टौ तु पुष्कलम् ।
पुष्कलैरष्टभिश्चैकः पूर्णपात्र उदीरितः" ॥

 इत्याधानवैजयन्त्यां पाठः ।

 आगमसारसंग्रहे तु--

"द्वात्रिंशत्पलताम्रेण निर्मितं ताम्रपात्रकम् ।
तण्डुलेन समापूर्य सहिरण्यं सदक्षिणम् ॥
कर्ता वृताय दद्यात्तत्पूर्णपात्रं विदुर्बुधाः" ।

 इत्युक्तं पूर्णपात्रलक्षणम् ।

 छन्दोगपरिशिष्टे तु पुरुषाहारपर्याप्तधान्यस्यापि पूर्णपात्रत्वमुक्तम् । एतेषां शक्त्यपेक्षया योजना द्रष्टव्या । यत्र वैशेषिकी दक्षिणा विहिता तत्रापीदं दक्षिणादानं कार्य[२]मिति केचित् । वस्तुतस्तु--सौमिकेष्टिपशुबन्धेषु प्राकृतान्वाहार्यदानलोप इवैतस्यापि लोपो युक्तः । [३]अत्र वोपवेषनिरसनम् । ततो ब्रह्मयजमानौ यथेतं प्रतिनिष्क्रामतः। एते च धर्मा आघारवत्सु दर्विहोमेषु गृह्यान्तरे दृष्टाः कृताकृताः । केचिद्वास्तुबलिकर्मानन्तरमेतान्धर्माननुतिष्ठन्ति । ततो यज्ञ नमस्त इत्यस्य विश्वे देवा यज्ञो यजुः । अग्न्युपस्थाने विनियोगः-- "ॐ यज्ञ नमस्ते यज्ञ० उप ते नमः" इति यजमानो ब्रह्मा चोपतिष्ठते । आचार्यर्त्विजामप्युपस्थानम् । अग्ने नय इत्यस्य विश्वे


  1. क. ख. क्षणं सु ।
  2. ग. घ. ङ. र्यमेवेति ।
  3. ग. अत्रोप ।