पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/९७

पुटमेतत् सुपुष्टितम्
[अग्निमुखप्रयोगः]
९३
संस्काररत्नमाला ।
( अग्निपूजनं विभूतिधारणं च )
 

देवा अग्निस्त्रिष्टुप्, अग्निपूजने विनियोगः-- "अग्ने नय० विधेम" इत्यग्न्यायतनात्षडङ्गुलं स्थलं विहायाग्निं तन्त्रानुलक्षीकृत्य पूजयेत् । वायव्यां दिशीति संप्रदायः । अग्निपूजन आरक्तगन्धपुष्पाक्षतान्वर्जयेत् । आरक्तपुष्पेषु जपापुष्पमेव वा वर्जयेत् । धूपदीपौ वर्जयेदिति कैश्चिल्लिखितं तत्र मूलं न विद्मः ।

 मा नस्तोक इत्यस्याग्नी रुद्रो जगती । विभूतिधारणे विनियोगः-- "ॐ मा नस्तोके तन० म ते" इत्यग्नेर्विभूतिं ललाटे धृत्वा--

"श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् ।
आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन" ।

 इत्यग्निं संप्रार्थ्य नमस्कुर्यात् । कर्मसमाप्तौ कर्मोपयुक्तमुदकमवशिष्टं चेत्परित्यज्यारिक्तत्वार्थं शुद्धमुदकं तत्पात्र आनीय स्थापयेत् ।

इत्यग्निमुखप्रयोगः ।

 अमुमुपनयनोपदिष्टं होमविधिमन्यत्राप्यतिदिशति--

"सर्वदर्विहोमाणामेष कल्पः" इति ।

 अस्यार्थः । जुहोतिचोदितानि कर्माणि दर्विहोमास्तेषु सर्वेष्वेष उद्धननादिः प्रसाधनीदेवीहोमान्तोऽनुक्रान्तः कल्पो विधिर्भवति । अथवैष प्रसाधनीदेवीहोमान्तोऽनुक्रान्तो व्याहृतिहोमवारुणीहोमादिरनुक्रम्यमाणश्च कल्पो विधिर्भवतीत्यर्थः । पूर्वस्मिन्कल्पेऽग्रे तत्र तत्र व्याहृतिपर्यन्तं कृत्वेति वचनमिमं मे वरुण तत्वा यामीत्यादिविधानं चाप्राप्तत्वादपूर्वविधानार्थम् । द्वितीयकल्पे त्वनुवादो भवति । सर्वग्रहणं यत्र यत्र व्याहृतिहोमविधानं वारुण्याद्यनुक्रमणं च न कृतं भवति तादृशेषु सूत्रोक्तेषु शास्त्रान्तरोक्तेष्वपि च कर्मसु प्रसाधनीदेवीहोमान्तविधिप्रापणार्थम् । अस्मिन्व्याख्यान औपासन होमेऽतिप्रसङ्गः, स व्रीहिभिर्यवैर्वा हस्तेनैते आहुती जुहोतीत्यत्राऽऽहुतिग्रहणेन वारणीयः ।

 एतत्कथमिति चेदुच्यते--एते जुहोतीत्येतावतैव सिद्ध आहुतिग्रहणं नियमार्थम् । आहुती एव केवले स्यातां नेतरत्तन्त्रमिति । अस्मिन्कल्पे परिस्तरणपरिषेकयोरपि निवृत्तिः । ([१]हस्ताग्रेणापि कदाचिद्धोमः स्यात्स


  1. धनुश्चिह्नान्तर्गतो ग्रन्थो ग. घ. ङ. पुस्तकेषु नास्ति ।