पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१३४

पुटमेतत् सुपुष्टितम्
९४२
[वैश्वदेवविहितहविर्द्रव्यविचारः]
भट्टगोपीनाथदीक्षितविरचिता--

 सूत्रकृताऽपि शृतान्नेन होम उक्तो धर्मसूत्रे--

"गृहमेधिनो यदशनीयस्य होमा वलयश्च" इति ।

 गृहमेधिनो यदशनीयं पक्वमपक्वं वोपस्थितं तस्यैकदेशेन होमा वलयश्च वक्ष्यमाणाः कर्तव्याः, स्वर्गः पुष्टिश्च तेषां फलमिति व्याख्यातमुज्ज्वलाकृता । पक्वमग्निसंयोगाज्जातपाकमोदनादि । एतद्भिन्नमपक्वं फलादीति द्रष्टव्यम् । तच्च शृता[शृता]न्नं हविष्यमेव होमसाधनमित्यपि दर्शितं सूत्रकृता निषेधमुखेन 'न क्षारलवणहोमो विद्यते तथाऽयज्ञसंसृष्टस्य' इति ।

 यद्युपवासवशेन[१] शाकपत्रमूलफलाहारस्तदा तेनैव वैश्वदेवः कार्यः--

"शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् ।
संकल्पयेद्यदाहारस्तेनैव जुहुयादपि" इति गृह्यपरिशिष्टात् ॥

विश्वप्रकाशे--

"अन्नेन तण्डुलैर्वाऽपि फलेनाद्भिरथापि वा ।
वैश्वदेवं प्रकुर्वीत जपेन्मन्त्रानथापि वा" इति ॥

 मन्त्रान्वैश्वदेवमन्त्रान् । ([२] अत्रैवं व्यवस्था । शाकाद्याहारे शाकादिभिः । भोजनेऽन्नेन शृतेन । भर्जितान्नभक्षणे तण्डुलैरपक्वैरेव । सर्वथाऽशनाकरणेऽद्भिः । अतिसंकटेन जलस्याप्यभावे वैश्वदेवमन्त्रजप इति । उदकेन वैश्वदेवक्रियायामुदक एव कार्यो नाग्नौ ।

"अन्नेन तण्डुलैर्वाऽग्नौ जलेनाप्स्वपि वा चरेत् ।
वैश्वदेवं फलेर्वाऽपि मन्त्रा जप्या असंभवे" इतिसंग्रहवचनात् ॥

 "अद्भिरञ्जलिना जले" इतिवक्ष्यमाणचतुर्विंशतिमताच्च । पक्वान्नप्रतिग्रहेऽपि तेनैव वैश्वदेवस्तस्य पाकप्रयोजकत्वात् । शूद्रलब्धेन वैश्वदेवादि न कार्यम् ।

"आमं शूद्रस्य यत्किंचिच्छ्राद्धिकं प्रतिगृह्य च ।
तत्सर्वं भोजनायालं नित्ये नैमित्तिके न च" इतिषट्त्रिंशन्मतात् ॥)

 स्मृत्यन्तरे हविष्याण्युक्तानि--

"गोधूमा व्रीहयश्चैव तिला मुद्गा यवास्तथा ।
हविष्या इति विज्ञेया वैश्वदेवादिकर्मसु" इति ॥


  1. क. ख. न कन्दम
  2. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तके । तत्स्थाने च ख. पुस्तके "अयं च मन्त्रजपोऽतिसंकटे" इति ग्रन्थोऽस्तीति द्रष्टव्यम् ।