केतितो निमन्त्रितो विप्रः श्राद्धे भोजनं मुखनिःसृतं यदि कुर्याद्वमेदिति यावत् । तदैव स्नात्वा स्वोपासनाग्नौ लौकिकाग्नौ वा विप्रः श्राद्धकर्ता प्राणाय स्वाहा, अपानाय स्वाहा, व्यानाय स्वाहा, उदानाय स्वाहा, समानाय स्वाहा, इत्येतैः पञ्चभिर्मन्त्रैर्द्वात्रिंशत्संख्यया होमः कार्यः । अनादेश आज्यं प्रतीयादितिपरिभाषयाऽऽज्येन । अयं पञ्चभिर्मन्त्रैः प्रतिमन्त्रं द्वात्रिंशत्संख्ययेति केचित् । एतन्मते षष्ट्यधिकशतमाहुतयो भवन्ति । अन्ये तु--पञ्चभिर्मन्त्रैर्द्वात्रिंशत्संख्ययाऽऽहुतीर्जुहुयादिति यथाश्रुतमेवार्थं वर्णयन्ति । एतन्मते द्वात्रिंशदेव । आहुतिमन्त्रयोर्वैषम्यं तु--अन्ताल्लोपो विवृद्धिर्वेतिन्यायेन परिहरणीयम् । परे तु यावच्च त्रिंशत्संख्ययेति पाठमाहुः । एतत्पाठे वैषम्यं न । ततः श्राद्धकर्तृकर्तृकहोमानन्तरम्, ब्राह्मणः श्राद्धभोजी, कृत्वा, एतैर्मन्त्रैरुक्तसंख्यं होमं कृत्वेत्यर्थः । तुशब्दः पूर्वापेक्षया वैलक्षण्यार्थः । तच्च वैलक्षण्यं विशेषविधिकृतमिति तदर्थं तं विधिमाह--घृतप्राशनमाचरेदिति । यदि श्राद्धकर्तुः श्राद्धभोक्तुरेव वाऽयं घृतप्राशनान्तो विधिर्भवेत्तदा विप्रब्राह्मणपदयोरन्यतरस्य वैयर्थ्यापत्तिः स्यात् । अत उभयोरप्ययं विधिर्भवति । न च विनिगमनाविरहाद्धोमघृतप्राशने श्राद्धकर्तुः, होममात्रं तु श्राद्धभोक्तुरिति वैपरीत्यमेवास्त्विति वाच्यम् । घृतप्राशनस्यादृष्टार्थत्ववट्वमनजातदौर्गन्ध्यपरिहारस्य दृष्टार्थस्याप्यत्र संभवेन तस्याप्यत्र कल्पनात् । अतः श्राद्धभोक्तृविषयकत्वमेव । पिण्डदानोत्तरं वमने श्राद्धस्य नाऽऽवृत्तिः । पिण्डादानात्प्राग्वमने तु पुनः श्राद्धम् । तदुक्तं पृथ्वीचन्द्रोदये स्मृतिसंग्रहे--
"अकृते पिण्डदाने तु भुञ्जानो ब्राह्मणो वमेत् । |
पिण्डदानं श्राद्धम् ।
"अकृते पिण्डदाने तु पिता यदि वमेत्तदा । |
इति तत्रैवोक्तेः । तच्च पुनः श्राद्धं श्राद्धदिन उपवासं कृत्वा परेऽहनि कार्यम् । तदुक्तं स्मृतिसंग्रहे--
"पित्रर्थानां त्रयाणां हि पिता चेद्वमते यदि । |
- तथा--"वमने वा विरेके वा तद्दिनं परिवर्जयेत्" इति ।
विरेको गुदस्रावः । एतद्वचनद्वयं निर्मूलम् । समूलत्वेऽपि न मासिकाब्दिकविषयम् । मासिश्राद्धसांवत्सरिकयोर्वान्तावामेन तस्मिन्नेव दिने कार्यम् ।