देवलः--
"न चात्र श्येनकाकादीन्पक्षिणः प्रतिषेधयेत् । |
भविष्ये--
"देवाश्च पितरो यस्माद्गङ्गायां तु सदा स्थिताः । |
ब्राह्मणपरीक्षानिषेधोऽत्रोक्तो मरीचिना--
"न ब्राह्मणान्परीक्षेत तीर्थश्राद्धे सदा बुधः" इति ॥ |
तत्र पिण्डास्तु जल एव प्रक्षेप्याः ।
"तीर्थश्राद्धे सदा पिण्डान्क्षिपेत्तीर्थे समाहितः । |
इतिवचनादिति प्रघट्टके । एतच्चाधिमासेऽपि कार्यम् ।
"मन्वादिकं तैर्थिकं च कुर्यान्मासद्वयेऽपि च" इति चन्द्रिकोक्तेः । |
तीर्थयात्रार्थं गच्छन्गमनारम्भे यात्रोत्तरं गृहप्रवेशे च श्राद्धं कुर्यात् ।
तदुक्तं स्मृत्यन्तरे--
"गच्छन्देशान्तरं यस्तु श्राद्धं कुर्यात्तु सर्पिषा । |
अत्र सर्पिषेति सर्पिग्रहणात्सर्पिष एव प्राधान्यम् । अन्नभक्ष्यादिकं तु व्यञ्जनार्थत्वेनेति विशेषः ।
एतच्च पारणादिन एव ।
"उपोष्य रजनीमेकां प्रातः श्राद्धं विधाय च । |
वायवीये--
"उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः । |
श्राद्धशेषस्य भोजनं घृतस्य भोजनम् । तच्च क्रोशमध्य एव । श्राद्धोत्तरं क्रोशाधिकगमननिषेधात् । गयायामेवैतन्नान्यत्रेति केचित् । हेमाद्रिस्तु--गयायां श्राद्धदिन एव प्रस्थानं, तीर्थान्तरे तु श्राद्धोत्तरदिन इत्याह । यात्रामध्य आशौचे रजसि वा शुद्धिपर्यन्तं स्थित्वा तदन्ते गच्छेत् । मार्गवैषम्ये त्वदोषः । यात्रां गच्छता मध्ये तीर्थान्तरप्राप्तौ श्राद्धादि कार्यमेव । यो हि वाणिज्याद्यर्थं गच्छति तेन मुण्डनोपवासादि न कार्यमिति प्रयागसेतौ । तत्रापि मुण्डनोपवासश्राद्धादि कार्यमेवेति युक्तम् ।