द्युद्देशश्राद्धनिर्णयः]
शौनकः--
"मातापित्रोः क्षयाहे तु परेऽहनि तिलोदकम् । |
मन्वादिश्राद्धे कपिलः--
"मन्वादिषु युगाद्यासु दर्शे संक्रमणेऽपि च । |
नान्दीश्राद्धादौ तर्पणनिषेधो बृहन्नारदीये--
"वृद्धिश्राद्धे सपिण्डे च प्रेतश्राद्धेऽनुमासिके । |
इति तर्पणम् ।
अथ जीवपितृककर्तृकपितामहाद्युद्देशश्राद्धनिर्णयः ।
तत्र कात्यायनः--
"वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति । |
मैत्रायणीयपरिशिष्टमपि--
"उद्वाहे पुत्रजनने पित्रेष्ट्यां सौमिके मखे । |
यत्तु प्रयोगपारिजाते--
"न जीवतः पितुः कुर्याच्छ्राद्धमग्निमृते द्विजः । |
इति सुमन्तुवचनान्मैत्रायणीयपरिशिष्टोक्तविषयेष्वपि जीवत्पितृकस्य साग्नेरेवाधिकारो न निरग्नेरिति प्रतिपादितं तदुद्वाहपुत्रजनननिमित्तकनान्दीश्राद्धव्यतिरिक्ततीर्थश्राद्धादिविषयम् ।
"अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि । |
इत्याचारमदनरत्नोदाहृतहारीतवचनेन सुमन्तुवाक्यापवादात् । साग्निरत्र