पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२६०

पुटमेतत् सुपुष्टितम्
१०६८
[दर्शश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

तोत्पुनातु । अच्छिद्रेण पवित्रेण । वसोः सूर्यस्य रश्मिभिः' इति प्रथमार्घ्यपात्रस्था अपस्तत्पवित्रेण त्रिरुत्पूय तथैव द्वितीयपात्रस्था अपस्तत्पवित्रेण त्रिरुत्पुनाति । अयं मन्त्रो गायत्रीछन्दस्कस्तस्य पादत्रयं तत्र पादान्ते पादान्त एकैकमुत्पवनम् । एवं त्रिरुत्पवनमिति मातृदत्तमते । पादशो मन्त्रं पठित्वा गायत्रीछन्दस्कैतन्मन्त्रान्त एकमुत्पवनं तूष्णीं द्विरिति वैजयन्तीकृन्मते । एतयोरन्यतरप्रकारेणोत्पवनं करोति । तूष्णीमेव वोत्पवनम् । ततो देवपात्रे संपन्ने इति देवविप्रौ वदेत् । सुसंपन्ने इति विप्रौ । ततो देवविप्रदक्षिणकरयोर्यवोदकं कूर्चेन दत्त्वा कुशयवान्दक्षिणहस्ते[१] गृहीत्वा वामहस्तेन निरङ्गुष्ठेन निरङ्गुष्ठं विप्रस्य दक्षिणं हस्तं धृत्वा पुरूरवसंज्ञकान्विश्वान्देवांस्त्वय्यावाहयिष्य इति प्रथमदेवविप्रमामन्त्र्याऽऽवाहयेति तेनानुज्ञातः 'विश्वे देवाः शृणुतेम हवं० मादयध्वम्' पुरूरवसंज्ञकान्विश्वान्देवानावाहयामि, इति दक्षिणपादे वामपादे दक्षिणजानुनि सव्यजानुनि दक्षिणकरे वामकरे दक्षिणस्कन्धे वामस्कन्धे शिरसि, इति क्रमेण सकुशयवान्निक्षिपेत् । दक्षिणपादे दक्षिणजानुनि दक्षिणकरे दक्षिणस्कन्धे शिरसीत्येतेष्वेव वा । सकृन्मन्त्रः । इदमावाहनम् । निक्षेपणकाले किंचिदवशेषयन्निक्षिप्यावशेषितान्प्रथमार्घ्यपात्रे निक्षिपेत् । पुनरन्यान्कुशसहितान्यवान्गृहीत्वा पूर्ववद्दक्षिणहस्तं धृत्वा[२], आर्द्रवसंज्ञकान्विश्वान्देवांस्त्वय्यावाहयिष्य इति द्वितीयदेवविप्रामन्त्रणं पूर्ववत्कृत्वाऽऽवाहयेति तेनानुज्ञातः 'विश्वे देवाः शृणु० मादयध्वम्' आर्द्रवसंज्ञकान्विश्वान्देवानावाहयामि, इति पूर्ववदावाह्य पूर्ववत्तदावाहनशिष्टाक्षतानां द्वितीयार्घ्यपात्रे क्षेपणम् ।

"विश्वायां दक्षकन्यायां जाता धर्मान्महात्मनः ।
विश्वे देवा इति ख्याता देववर्या महाबलाः ॥
शक्रेण सह योद्धॄणां विजेतारस्तु रक्षसाम् ।
यन्नामस्मरणादेव प्रद्रवन्त्यसुराः क्षणात् ॥
बाणबाणासनधरा द्विभुजाः श्वेतवाससः ।
केयूरिणः कुण्डलिनः किरीटकटकान्विताः ॥
धैर्यसौन्दर्यसंयुक्ता दिव्यस्रगनुलेपनाः ।
इन्द्रस्यानुचराः सर्वे गोप्तारस्त्रिदिवस्पतेः" ॥

 इति ध्यात्वा, 'विश्वे देवाः शृणुतेम हवं मे० मादयध्वम्' इति देवासुपतिष्ठते ।


  1. च. स्तेन पृ ।
  2. क त्वा, ॐ आ ।