देवाः स्वस्तीति ब्रूत, इत्युपवीती देवविप्रौ वदेत् । तौ स्वस्तीति प्रतिवदेताम् । तत उपवीत्येव पितरः स्वस्तीति ब्रूत, इति पित्र्यविप्रान्वदेत् । ते च स्वस्तीति प्रतिवदेयुः । ततः पिण्डानुद्धृत्य स्थाल्यां निक्षिपति । पार्वणद्वयद्वितीयपिण्डौ प्रज्ञातो निक्षिपति । चतुर्थपिण्डपक्षे[१] तयोरपि क्षेपणम् । ततः स्थालीतो मध्यमं पिण्डद्वयमादाय 'अपां त्वौषधीना र्भ धत्स्व' इति पत्न्यै प्रयच्छति । पत्न्यनेकत्वे पिण्डद्वयं विभज्य प्रतिपत्नि देय[२]मिति याज्ञिकाः । 'आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसत्' इति सा प्राश्नाति । सर्वा अपि पत्न्योऽनेनैव मन्त्रेण प्राश्नीयुः । पत्न्या रजस्वलायाः प्रसूताया आशौचवत्या वा न भक्षणम् । भक्षणाभावाद्दानमपि न । अजातरजस्कायै च पत्न्यै न दद्यादिति रुद्रदत्तः[३] । 'ये समानाः समनसः० कल्पताम् । ये सजाताः समनसो० शत समाः' इति द्वाभ्यां सकृदाच्छिन्नमभ्युक्ष्याग्नौ प्रहरति । सकृदाच्छिन्नद्वित्वे द्वयोः प्रहरणम् । संभवात्सकृदेव मन्त्रः । तत इतरपिण्डानप्सु क्षिपति ब्राह्मणं वा भोजयत्यजाय गवे वा दद्यादग्नौ वा क्षिपेत् । पत्न्यां रजस्वलायां[४] रोगिण्यां च[५] प्राशनार्थौ मध्यमौ पिण्डौ जीर्णवृषभाय च्छागाय वा दे[६]यौ । अत्र[७] पिण्डप्राशनं कृताकृतम्[८]। ततः पिण्डस्थाने जलमासिच्य 'वाजे वाजे० यानैः'। उत्तिष्ठत पितरो विश्वैर्देवैः सहेति सव्येनैव पितृपूर्वकं विसर्जनं कुर्यात् । ततः कूर्चद्वयं विस्रस्य 'आ मा वाजस्य प्रसवो जगम्यादा द्यावापृथिवी विश्वशंभू । आ मा गन्तां पितरा मातरा चाऽऽ मा सोमो अमृतत्वाय गम्यात् । स्वादुष ० ब्राह्मणासः पितरः०' इति वदेत् । ततो विप्राः 'इहैव स्तं० स्वे गृहे । आयुः प्रजां धनं० । प्रयच्छन्तु तथा राज्यं प्रीतास्तुभ्यं पितामहाः' इत्याशिषो दद्युः । कर्ता--
"अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् । |
क्षन्तुमर्हाः स्म इति विप्राः । ततः कर्ता--
"मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः । |
विप्राः श्राद्धं संपूर्णतां यात्विति वदेयुः ।