पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२९४

पुटमेतत् सुपुष्टितम्
११०२
[मासिकश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
( सांकल्पिकविधिना दर्शश्राद्धप्रयोगः )
 

स्तरणान्तं क्रियते तदा परिस्तरणोत्तरमेव वैश्वदेवं कृत्वा पिण्डपितृयज्ञः कर्तव्य इति द्रष्टव्यम् । ) सांवत्सरिकादिश्राद्धेषु वैश्वदे[१]वो विधुरादिभिरग्नौकरणानन्तरमुच्छिष्टपिण्डदानोत्तरमेव वा पृथक्पाकेनैव कार्यः[२] । श्रौताग्निमद्गृह्याग्निमद्भ्यां च श्राद्धारम्भात्प्रागेव पृथक्पाकेनैव कर्तव्यः । ऐकादशाह्निके त्वेतयोरप्यन्त[३] एव । अग्नौकरणानन्तरं बलिदानोत्तरं वा वैश्वदेवानुष्ठानपक्षे पृथक्पाकेन[४] वैश्वदेवहोममात्रं कृत्वा श्राद्धसमाप्त्यनन्तरं वैश्वदेवार्थान्नेनैव बलिहरणादि कर्तव्यम् । यदा त्वन्ते तदा श्राद्धशेषेणैव[५] । स च वैश्वदेवो मासिश्राद्धमध्ये[६] मासिकश्राद्धमध्ये वा कार्यः । एतदन्यतरान्ते वा । समवदायाश्नीयादित्यनेन शेषस्याशनं विहितं तच्च दिवैव कार्यं न रात्रौ । तस्मिन्दिन आवश्यकोपवासप्राप्तौ शेषाघ्राणं कार्यम् । शेषनाशे भोजनलोप इति केचित् । प्रतिनिधिभूतेनान्नेन भोजनं कार्यमित्यन्ये ।

"दन्तधावनताम्बूलं तैलाभ्यङ्गमभोजनम् ।
रत्यौषधपरान्नानि श्राद्धकर्ता विवर्जयेत् ॥
पुनर्भोजनमध्वानं भारम[७]ध्यायसंगमम् ।
दानं प्रतिग्रहो(हं) होमः(मं) श्राद्धभुग्वर्जयेद्द्विजः" ॥

 इत्यादयः कर्तृभोक्तृनियमाः श्राद्धरत्नमालातोऽवगन्तव्याः । अत्र भोक्तुः प्रायश्चित्तं षट्प्राणायामाः । बुद्ध्या श्राद्धलोपे प्राजापत्यं प्रायश्चित्तं प्रमादाल्लोपे तूपवास इति । इदमेव नित्यनैमित्तिकश्राद्धलोपे प्रायश्चित्तं द्रष्टव्यम् ।

इति मासिकश्राद्धप्रयोगः ।

अथाशक्तविषये सांकल्पिकविधिना दर्शश्राद्धप्रयोगः ।

 उक्तापराह्णे यथाधिकारं कृतनित्यक्रियस्तिलतर्पणं विधाय देशकालौ संकीर्त्य प्राचीनावीती पितृवर्गस्य सपत्नीकस्य मातामहवर्गस्य सपत्नीकस्य षष्ठ्यन्तप्रयोगेणोत्कीर्तनं कृत्वा दर्शश्राद्धं सांक[८]ल्पिकविधिना करिष्य इति संकल्प्य पूर्ववद्विप्रनिमन्त्रणं पादप्रक्षालनं च कृत्वा पूर्ववदुपवेश्याऽऽवाहनार्घ्यदानवर्जमासनाद्याच्छादनान्तैरुपचारैः पूजयेत् । अथवा तूष्णीमावाहनम् । ततोऽग्नौकरणवर्जमपोशा(मापोश)नदानान्तं कुर्यात् । ब्राह्मणा बलिदानवर्जं विधिना


  1. ङ देवोऽनाहिताग्निना विकिरदानोत्तरं बलिदानोत्तरं वा श्राद्धसमाप्त्यनन्तरं वा ।
  2. ङ. र्यः । अ ।
  3. च. न्तर ए ।
  4. च. केनैव वै ।
  5. ङ. व । आहिताग्निना स्वैकादशाहिकं मुक्त्वा श्राद्धारम्भात्प्रागेव पृथक्पाकेनैव कार्यः । सम ।
  6. च. ध्ये का ।
  7. च. मभ्याय ।
  8. क. ङ. कल्पवि ।