पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३२

पुटमेतत् सुपुष्टितम्
८४२
[सूतकिनां कर्मनियमाः]
भट्टगोपीनाथदीक्षितविरचिता--

नाङ्गबलिदानं ग्राह्यम् । प्राणाहुत्यादय इत्यत्राऽऽदिशब्देनोत्तरापोशनादिकं ग्राह्यम् । नित्यस्नानमङ्गतर्पणसहितमेव कार्यम् ।

"अस्पृश्यस्पर्शने वान्ते अश्रुपाते [१]क्षुरे भगे ।
स्नानं नैमित्तिकं कार्यं दैवपित्र्यविवर्जितम् ॥
उद्धृतैरुदकैः स्नायान्न कुर्याद्वस्त्रपीडनम्" ।

 इति अस्पृश्यस्पर्शादिनिमित्तकस्नान एव तर्पणाद्यङ्गपर्युदासात् । काम्यस्यापि कस्यचित्प्रतिप्रसवं पुलस्त्य आह सद्यःशौचमित्यनुवृत्तौ--

"सांनिहित्यमुपस्पृश्य राहुग्रस्ते दिवाकरे ।
सत्रधर्मप्रवृत्तस्य दानकर्मफलैषिणः" इति ॥

 संनिहिततीर्थे स्नात्वा राहुग्रस्ते काम्यदानं कुर्यात् । तथाऽन्नसत्रप्रवृत्तोऽपीति व्याख्यातं पारिजाते ।

 जमदग्निः--

"सूतके मृतके चैव जाह्नव्याः सलिले स्थितः ।
नाभिमात्रे जले स्थित्वा कुर्याद्दानजपादिकम्" इति ।

 इदमपि काम्यविषयमित्यपि तत्रैवोक्तम् ।

 ग्रहणश्राद्धादावप्याशौचापवादमाह व्याघ्रः--

"स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके" इति ।

लैङ्गेऽपि--

"सूतके मृतके चैव न दोषो राहुदर्शने ।
तावदेव भवेच्छुद्धिर्यावन्मुक्तिर्न दृश्यते" इति ॥

वृद्धशातातपः--

"यदा भोजनकाले तु अशुचिर्भवति द्विजः ।
भूमौ निक्षिप्य तं ग्रासं स्नात्वा विप्रो विशुध्यति ॥
भक्षयेद्यदि तं ग्रासमहोरात्रेण शुध्यति ।
अशित्वा सर्वमेवान्नं त्रिरात्रेण विशुध्यति" इति ॥

 इदमविशेषात्सूतकादिपरमिति शुद्धितत्त्वे शूलपाणौ च ।

षट्त्रिंशन्मते--

"उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत् ।
एकेनापि परिज्ञाते भोक्तुर्दोषमुपावहेत्" इति ॥

 उभाभ्यां भोक्तृभोजयितृभ्याम् ।

माधवीये मात्स्ये--

"सूतकान्ते नरः स्नात्वा पूजयित्वा जनार्दनम् ।
दानं दत्त्वा विधानेन व्रतस्य फलमश्नुते" इति ॥


  1. क. पुस्तकटिप्पण्यां--'क्षुरे श्मश्रुकार्ये । भगे मैथुने" इति वर्तते ।