इत्याद्याः सप्ताऽऽहुतीः समस्तव्याहृतिभिरेका[१]माज्याहुतिं च जुहुयात्[२] । ततः पादकृच्छ्रं चरेत् । अशक्तौ तत्प्रत्याम्नायत्वेन यथाशक्ति द्रव्यं द[३]द्यात् । तत आतमितोः प्राणायामं कृत्वा प्रा[४]प्तकालबलिदानं कुर्यात् । एतच्चोपोषितेनैव कार्यम् । श्रवणाकर्मणो मुख्यकाले दैवादकरणे लोपः ।
मुख्यका[५]लेऽपि सकृदेव करणं न प्रतिवर्षमिति केचित् । यथोक्तमेतत्तुल्यन्यायाष्टकाप्रकरणे कर्केण-- "सकृत्करणं चाभ्यासाश्रवणात्" इति ।
अन्ये त्वीदृशपाकयज्ञानां प्रत्यब्दमावृत्तिमाहुः ।
उक्तं हि रेणुकारिकायाम्--
"अथातः श्रवणाकर्म शास्त्रदृष्ट्या मयोच्यते । |
प्रतिसंवत्सरं[६] श्रवणाकर्मावृत्तिपक्ष एकस्मिन्वत्सरे तल्लोपे प्रायश्चित्तमात्रमनुष्ठेयम् । तत्र प्रयोगः--
मार्गशीर्षपौर्णमास्यां प्रातरौपासनहोमोत्तरं देशकालौ संकीर्त्य[७] श्रवणाकर्मलोपजनितप्रत्यवायपरिहारार्थं प्रायश्चित्तहोमपूर्वकं प्राजापत्यमेकमहमाचरिष्य इति संकल्प्य लौकिकाग्नावाघारवत्तन्त्रेणाऽऽपूर्विकतन्त्रेण वा 'त्वं नः' 'स त्वं नः' इत्याद्याः पूर्ववत्सप्ताऽऽहुतीः समस्तव्याहृतिभिरेकाज्याहुतिं च हुत्वा प्राजापत्यं चरेत् ।
इति संस्काररत्नमालायां पद्धतौ श्रवणाकर्मप्रयोगः ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे दशमं प्रकरणम् ॥ १० ॥