पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३४

पुटमेतत् सुपुष्टितम्
८४४
[सूतकिनां कर्मनियमाः]
भट्टगोपीनाथदीक्षितविरचिता--

"नित्यं नैमित्तिकं कुर्यात्काम्यं कर्म न किंचन "।

 इति मण्डनवचनात्प्रत्यवरोहणमाशौचेऽपि भवतीत्येतन्मते न पुनराधानम् । स्मार्ते तु सर्वमते पुनःसंधानमेव । स्वदेशभ्रंश आपत्सु च नाऽऽशौचं, शिल्पिवैद्यादीनां सद्यः शौचम् । एतदनन्यसाध्यकर्मण्येव न तु पञ्चयज्ञादाविति मिताक्षरायाम् । भिषजो वैद्याः । कारवः सूपकाराद्याः । शिल्पिनश्चैलनिर्णेजकाद्याः । आतुरस्य व्याधिनाशार्थे दानादौ । संप्रारब्धेष्विति दानाद्युत्सवान्तानां विशेषणम् । तुलादाने प्रारम्भो नान्दीश्राद्धं संकल्पो वा । उपनयने नान्दीश्राद्धम् । यजनं तडागोत्सर्गकोटिहोमादि । तत्र प्रारम्भ ऋत्विग्वरणम् । श्राद्धं दर्शादि । तत्र प्रारम्भः पाकप्रोक्षणम् । युद्धारम्भः प्र[१]सिद्धः । प्रतिष्ठायामारम्भो नान्दीश्राद्धं संकल्पो वा । चूडायामारम्भो नान्दीश्राद्धम् । तीर्थार्थयात्रा तीर्थार्था यात्रा तत्र संकल्पो घृतश्राद्धं वा । जपः पुरश्चरणादिः, स्तोत्रपाठः, अविच्छेदेन संकल्पितहरिवंशश्रवणादिश्च । एवं देवपूजादि । कालनियमाभावे तु स्तोत्रपाठहरिवंशश्रवणादि देवपूजादि च हेयमेव । उत्सवो रथयात्रादिः । एषु च नाऽऽशौचमित्यर्थः । एतदर्थं एतन्निमित्तमाशौचं नास्ति । एतदन्यनिमित्तेषु त्वस्त्येवेत्यर्थः । अयं चाऽऽशौचाभावोऽनन्यगतिकत्व आर्तौ च ज्ञेयः । सर्वत्र मूलमाकरे स्पष्टम् ।

 द्रव्यविषय आशौचाभावमाह मरीचिः--

"लवणे मधुमांसे च पुष्पमूलफलेषु च ।
शाककाष्ठतृणेष्वप्सु दधिसर्पिःपयःसु च ॥
तिलौषधाजिने चैव पक्वापक्वे स्वयंग्रहः ।
पण्येषु चैव सर्वेषु नाऽऽशौचं मृतसूतके" इति ॥

 पक्वापक्वे स्वयंग्रहः । स्वययेव स्वाम्यनुज्ञया ग्राह्यं नान्यद्ध(ह)स्तादिति नियम इत्यर्थः । पक्वं लड्डुकादि । अपक्वं तण्डुलादि ।

 एतदन्नसत्रपरम् ।

"अन्नसत्रप्रवृत्तानामाममन्नमगर्हितम् ।
भुक्त्वा पक्वान्नमेतेषां त्रिरात्रं तु व्रती भवेत्" इत्यङ्गिरोवचनात् ।

 पक्वान्नमोदनादि न तु भक्ष्यमिति निबन्धकाराः ।

षडशीतौ--

"संसर्गाद्यस्य चाऽऽशौचं यस्यातिक्रान्तकालता ।
तदीयस्य पदार्थस्य नाऽऽशौचं विद्यते क्वचित्" इति ॥


  1. ङ. च. प्रत्यक्षसि ।