विप्रेभ्यश्चैव ताम्बूलदक्षिणादिकमर्पयेत् ॥ |
देवी जीवन्तिका तथेत्यत्र तथाशब्दात्स्कन्दस्य शस्त्रे भगवत्याश्च पूजनं संगृह्यते । मिताक्षरायां मार्कण्डेयोऽपि--
"रक्षणीया तथा षष्ठी निशा तत्र विशेषतः । |
चशब्दात्पञ्चम्यपि गृह्यते । देशाचारतो व्यवस्थितानि चैतानि पूजादिनानि ।
अथ प्रयोगः ।
पञ्चमे षष्ठे च दिवसे प्रदोषसमये स्नात्वा गन्धमाल्यभूषित आचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्याः सूतिकाया भार्यायाः शिशोश्च सकलानिष्टनिरसनपूर्वकायुरारोग्यैश्वर्याभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं विघ्नेशस्य जन्मदानां षष्ठीदेव्या जीवन्तिकायाः स्कन्दस्य शस्त्रे भगवत्याश्च पूजनमहं करिष्य इति संकल्पं कुर्यात् । ममास्याः सूतिकाया भ्रातृपत्न्याः, ममास्याः सूतिकायाः स्नुषायास्तच्छिशोश्चेति भ्रातृपत्न्यादावन्यकर्त्रा यथापथमूहेन संकल्पः कार्यः ।
ततः कुड्यादिलिखितप्रतिमास्वक्षतपुञ्जेषु वा क्रमेणाऽऽवाहयेत् । 'ॐ विघ्नेशाय नमः' विघ्नेशमावाहयामि । 'ॐ जन्मदाभ्यो नमः' जन्मदा आवाहयामि । 'ॐ षष्ठीदेव्यै नमः' षष्ठीदेवीमावाहयामि । 'ॐ जीवन्तिकायै नमः' जीवन्तिकामावाहयामि । 'ॐ स्कन्दाय नमः' स्कन्दमावाहयामि । शस्त्रे 'ॐ भगवत्यै नमः भगवतीमावाहयामि । इत्यावाह्य, 'ॐ विघ्नेशजन्मदाषष्ठीदेवीजीवन्तिकास्कन्दभगवतीभ्यो नमः' इति षोडशोपचारैः पूजयेत् ।
ततः प्रार्थना--
"सर्वविघ्नहरोऽसि त्वमेकदन्त गजानन । |
"वरदाः सायुधा यूयं जन्मदा इति विश्रुताः । |