पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३९५

पुटमेतत् सुपुष्टितम्
[ग्रन्थसमाप्तिश्लोकाः]
१२०१
संस्काररत्नमाला ।

नत्वा नत्वा सद्द्विजान्कोविदेशान्भूयो भूयो याचते गोपिनाथः ।
अत्रानुक्तं वा दुरुक्तं निबन्धे स्यात्तत्सर्वं शोधनीयं भवद्भिः ॥ १ ॥

संस्काररत्नमालेयं गोपीनाथेन धीमता ।
विद्यागणपतेः कण्ठे योजिता राजतां सदा ॥ २ ॥
प्रीतोऽस्त्वनेन भगवान्विघ्नेशो मङ्गलालयः ।
सिद्धिबुद्धिसमायुक्तो विद्यागणपतिः सदा ॥ ३ ॥
[१] श्रीमत्पार्थिवशालिवाहनशके[२] सप्ताष्टभूषैर्मिते १६८७
शुक्ले श्रावणमासि[३] विघ्नपतिथौ कर्काटकस्थे गु[४]रौ ।
वर्षे[५] पार्थिवनामके गुणवती संस्काररत्नैर्युता
मालेयं परिपूर्णतां समगम[६]त्सोमे दिने भे शुभे ॥

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयस[७]चातुर्होत्रकाठकसर्वतोमुख-
साग्निचित्पौण्डरीकयाजिगणेशदीक्षिततनूजभट्टगोपीनाथदी-
क्षितविरचितायाः सत्याषाढहिरण्यकेशिस्मार्तसंस्का-
ररत्नमालाया उत्तरार्धं समाप्तिमगमत् ।
समाप्तोऽयं ग्रन्थः ।


  1. च. पुस्तकेऽयं श्लोको नास्ति ।
  2. क. केऽश्ब्यभ्राद्रिपृथ्वीमिते १७०२ शु ।
  3. क. सि च प्रहति ।
  4. १४१०
  5. र्पे शार्वरिना ।
  6. क. मद्भौमे शुभे मित्रभे ।
  7. क. सचतुर्होतृका ।