त्यर्थः । एतस्य विनियोगो हौत्र एव । इतरयोस्त्वत्रान्यत्र चेति ज्ञेयम् । व्यावहारिकनाम्नि विशेष उक्तः शङ्खलिखिताभ्याम्--
"घोषवदाद्यन्तरन्तस्थं पुंसामिकारान्तं स्त्रीणामेवं |
पतञ्जलिः--
"अवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं |
यत्राऽऽद्यस्याचो वृद्धिस्तद्वृद्धमिति पाणिनिपरिभाषितं वृद्धं तद्भिन्नमवृद्धम् । नामकर्तुस्त्रिपुरुषान्पितामहादीननु कायत्यभिधत्त इति त्रिपुरुषानूकम् । पितामहादित्रितयान्यतमं नाम कार्यमित्यर्थः । कृतं कृदन्तम् । तद्धितं तद्धितान्तम् ।
यत्तु प्रयोगपारिजाते कपिलसंहितावचनम्--
"एकादशेऽह्नि विधिवन्नाम कुर्यात्कुलोचितम् । |
इति, तदपि नामकर्तुः पित्रोर्नामेत्येवं व्याख्येयं पातञ्जलेनाविरोधाय । अतश्च पित्रादिः कर्ता स्वनामैव करोतीति केषांचिदनाचार एव ।
वसिष्ठः--
"तद्द्व्यक्षरं वा चतुरक्षरं वा विवर्जयेदन्त्यलकाररेफम् । |
बालस्येति शेषः ।
व्यावहारिकं नाम प्रकृत्य यमः--
"शर्म देवश्च विप्रस्य वर्म राजा च भूभुजः । |
भूतिर्गुप्तश्च वैश्यस्येत्यपि पाठः ।
बौधायनोऽपि--
"शर्मान्तं ब्राह्मणस्य वर्मान्तं क्षत्रियस्य |
( [१]वासिष्ठसूत्रेऽपि-–'शर्मान्तं ब्राह्मणस्य येन व्यवह्रियते' इति । अनेन नक्षत्रादिनाम्नां शर्मान्तता व्यावर्त्यते । )
- ↑ धनुश्चिह्नान्तर्गतं क. पुस्तक एव ।