पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/४९

पुटमेतत् सुपुष्टितम्
[नामकरणम्]
८५९
संस्काररत्नमाला ।

 तानि ज्योतिषार्के--

"चुचेचोला पदेष्वाद्ये लि लु ले लो यमस्य भे ।
अ (मे०), इ उ ए वह्निभे च ओ व वि वु तथा कभे
वे वो (वृ०), क कि मृगः ख्यातः कु घ ङ् च्छ शिवस्य भे ।
के को ह (मि०), हि त्वदितिभे हुहेहोडाश्च पुष्यभे ॥
डि डु डे डो (क०), इमे सार्पे म मि मू मे मघाभिधे ।
मो ट टि टु तथा भागे टे (सिं०), टो प प्यर्यमर्क्षके ॥
पुषणठास्तथा हस्ते पे पो (क०), र रि च चित्रभे ।
रुरेरोतास्तथा स्वातौ ति तु ते (तू०), तो द्विदैवभे ॥
न नि नू ने क्रमान्मैत्रे नो य यि यु (वृ०), इतीन्द्रभे ।
ये यो भ भि च मूलाख्ये [१]बुधफाढा जलस्य भे ॥
भे (ध०), भो ज नि च विश्वर्क्षे जु जे जो खाभिजिद्भवेत् ।
खि खु खे खो[२] श्रुतौ ज्ञेया ग मि (म०), गू गे च वासवे ॥
गो सा सि सू जलेशर्क्षे से सो द (कु०), दि अजैकभे ।
दुथझञास्तथोपान्त्ये दे दो च ची(मी०), ति पौष्णभे ॥
इति प्रोक्ता इमे पद्ये वर्णो नामादिजाः स्फुटाः ।
ज्ञेया मेषादिराशीनां नवभिर्नवभिः पदैः" इति ॥

 आद्यमश्विनीनक्षत्रम् । यमस्य नक्षत्रं भरण्यः । वह्निभं कृत्तिकाः । कः प्रजापतिस्तस्य नक्षत्रं रोहिणी । शिवस्य भमार्द्रानक्षत्रम् । अदितिभं पुनर्वसू । सार्पमाश्लेषाः । भागं भगदैवतं पूर्वा(र्व)फल्गुनीनक्षत्रम् । अर्यमर्क्षमुत्तरा(र)फल्गुनीनक्षत्रम् । द्विदैवभं विशाखानक्षत्रम् । मैत्रमनूराधाः । इन्द्रभं ज्येष्ठाः । जलस्य भं पूर्वाषाढाः । विश्वर्क्षमुत्तराषाढाः । श्रुतिः श्रवणनक्षत्रम् । वासवं श्रविष्ठाः । जलेशो वरुणस्तस्य नक्षत्रं शततारकाः । अजैकभं पूर्वा(र्व)प्रोष्ठपदाः । उपान्त्यमुत्तरा(र)प्रोष्ठपदाः । पौष्णभं रेवतीनक्षत्रम् । इतराणि प्रसिद्धार्थानि ।

"इति प्रोक्ता इमे पद्ये वर्णा नामादिजाः स्फुटाः"

 इत्युपसंहाराद्येऽश्विन्यां पदेषु चरणेषु ये चु इत्यादयो वर्णास्तदादीनि नामानि कार्याणीति प्रतीतेर्ज्योतिर्विदां नक्षत्रतच्चरणज्ञानफलानि सन्तु


  1. अत्र भुधेति क. पुस्तकशोधित: पाठः ।
  2. ख. ङ. च. स्वाः ।