अमले ग्रहदोषशून्ये । राशय उक्ता नारदेन--
"वृषभे मिथुने मीने कुलीरे कन्यकासु च । |
बृहस्पतिः--
"अष्टमस्था ग्रहाः सर्वे नेष्टाः स्युः कर्णवेधने" इति । |
श्रीधरीये--
"हरकरवसुचित्रासौम्यपौष्णोत्तराश्वि- |
अगस्त्यः--
"द्वयोश्च संध्ययोर्लग्ने न कुर्यात्कर्णवेधनम् । |
छेदनं नाशः ।
संग्रहे--
"दिनच्छिद्राव्यतीपातविष्टिवैधृतिवर्जिते । |
सुबोधे--
"शातकुम्भमयी सूची वेधने तु शुभप्रदा । |
शातकुम्भं सुवर्णम् ।
सूचीव्यवस्था(स्थां) तत्प्रमाणं चाऽऽह बृहस्पतिः--
"सौवर्णी राजपुत्रस्य राजती विप्रवैश्ययोः । |
बालस्य मध्यमाङ्गुलिमध्यपर्वमिताङ्गुलेनाष्टाङ्गुलेत्यर्थः । ज्योतिरर्णवे--
" शुक्लसूत्रसमायुक्तताम्रसूच्याऽथ वेधयेत् । |
यस्मिन्नक्षत्रे कर्णवेधस्तस्मान्नक्षत्रात्तृतीयनक्षत्र उष्णोदकेन क्षालनं कर्तव्यमित्युत्तरार्धार्थः । इयं च ताम्रसूची सर्वेषां वैकल्पिकी ।
विधिर्गृह्यपरिशिष्टे--
"अथ कर्णवेधो वर्षे तृतीये पञ्चमे वा पुष्येन्दुचित्राहरिरेवतीषु पूर्वाह्णे |