पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/७२

पुटमेतत् सुपुष्टितम्
८८२
[आयुर्वर्धापनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

 ततो बालकजन्मनक्षत्रदेवतायाः पुरोनुवाक्यां याज्यां चोक्त्वाऽन्ते स्वाहाकारमुक्त्वा जुहुयात् । तत्राग्निर्नः पातु कृत्तिका इत्यारभ्य नक्षत्रदेवतानां याज्यापुरोनुवाक्याः क्रमेण । तत्राग्निर्नः पात्विति वाक्यचतुष्टयं पुरोनुवाक्या । यस्य भा[१]न्तीति तदग्रिमं वाक्यचतुष्टयं याज्या । प्रजापते रोहिणीति तदग्रिमं वाक्यचतुष्टयं पुरोनुवाक्या । रोहिणी देव्युदगादिति तदग्रिमं वाक्यचतुष्टयं याज्या । एवमग्रेऽपि क्रमेण पुरोनुवाक्या याज्याश्च द्रष्टव्याः । प्रकृते पौर्णमास्यमावास्योद्देशेन होमस्याभावात्तदीयाः पूर्णा प[२]श्चा पृथ्वी सुवर्चा निवेशनी यत्ते देवा अदधुरिति पुरोनुवाक्या याज्याश्च त्यक्तव्याः । तत्र यद्बालकजन्मनक्षत्रं तदीयपुरोनुवाक्यायाज्यासंज्ञकमन्त्राभ्यां होमः कार्यः । एतेषां सर्वेषां मन्त्राणां विश्वे देवा ऋषयः । अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्बृहस्पतिः सर्पाः पितरोऽर्यमा भगः सविता त्वष्टा वायुरिन्द्राग्नी मित्र इन्द्रो निर्ऋतिरापो विश्वे देवा विष्णुर्वसवो वरुणोऽज एकपादहिर्बुध्न्यः पूषाऽश्विनौ यम इति क्रमेण सप्तविंशतियाज्यानुवाक्यामन्त्राणां सप्तविंशतिर्देवताः । आद्यायाः पुरोनुवाक्याया अनुष्टुप्छन्दः । आद्याया याज्यायास्त्रिष्टुप्छन्दः । द्वितीयादिपुरोनुवाक्यानां याज्यानां च सर्वेषां(र्वासां) त्रिष्टुप्छन्दः । आयुर्वर्धापनप्रधानचरुहोमे विनियोगः । इत्येतेषां मन्त्राणामृष्यादि । एतन्मध्ये बालकजन्मनक्षत्रमात्रसंबन्धिमन्त्रयोर्ऋषिदेवताछन्दोविनियोगान्स्मृत्वा ताभ्यां मन्त्राभ्यां होमं कृत्वा वारुणीहोमादिराष्ट्रभृदन्तानामन्वाधान उत्कीर्तनं कृतं चेत्तदा राष्ट्रभृदुपहोमान्तमुपहोमाञ्जुहुयात् । तत्र सर्वेषामुपहोममन्त्राणां विश्वे देवा लिङ्गोक्ता [वा] देवता यजूंषि । आयुर्वर्धापनोपहोमे विनियोग इत्यृष्यादि । एतेषूपहोमेषु यद्बालकजन्मनक्षत्रं तत्संबन्ध्युपहोमाञ्जुहुयात्[३] । तत्र केषांचिन्मते यथालिङ्गं त्यागाः । आर्द्रामघामूलनक्षत्राणां क्रमेण रुद्रपितृनिर्ऋतिदेवत्यत्वात्तद्धोमान्त उदकस्पर्श: कार्यः । एवमार्द्रामघानक्षत्रेष्ट्युपहोमान्तर्गतयो रुद्राय स्वाहा पितृभ्यः स्वाहेति द्वयोरुपहोमयोरप्युदकस्पर्शः ।

 ततः स्वजन्मनक्षत्रेष्टिपठितोपहोमान्हुत्वाऽन्वाधाने प्रसाधनीदेव्यन्तमेवो


  1. क. भान्त्विति ।
  2. क. पश्चात्पृथ्वी ।
  3. अत्र क. पुस्तकटिप्पण्यां-- तद्यथा--- ॐ अग्नये स्वाहा, अग्नय इदं न मम । ॐ कृत्तिकाभ्यः स्वाहा कृत्तिकाभ्य इदं न मम । ॐ अम्बायै स्वाहा । ॐ दुलायै स्वाहा । ॐ नितत्न्यै स्वाहा । ॐ अभ्रयन्त्यै स्वाहा । ॐ मेघयन्त्यै स्वाहा । ॐ वर्षयन्त्यै स्वाहा । ॐ चुपुणीकायै स्वाहा । एवमग्रेऽपि प्रतिस्वाहाकारं पृथक्पृथङ्मन्त्रास्तत्तदनुवाकान्ते द्रष्टव्याः । अत्रस्यानुवाकानां वानी, इति नाम्ना व्यवह्रियते(हारः) । इति वर्तते ।