- 'ॐ स्वस्ति न इन्द्रो वृद्ध० बृहस्पतिर्दधातु स्वाहा' इन्द्राय वृद्धश्रवसे पूष्णे विश्ववेदसे तार्क्ष्यारिष्टनेमये बृहस्पतये चेदं न मम । 'ॐ स्वस्ति पन्था० संगमेमहि स्वाहा' देवेभ्य इदं न मम । 'ॐ स्वस्त्ययनं तार्क्ष्य० मिवाऽऽरुहेम स्वाहा' तार्क्ष्यायारिष्टनेमय इदं न मम । 'ॐ अंहोमुच० अस्तु स्वाहा' अंहोमुच आङ्गिरसाय स्वस्त्यात्रेयाय तार्क्ष्याय चेदं न मम । इत्यष्टावाज्याहुतीर्हुत्वाऽङ्गहोमादि स्विष्टकृदादि वा [१]पूर्वान्तानुसारेण कर्मशेषं समापयेत् ।
ततो ब्राह्मणाय धेनुं दत्त्वाऽग्निं संपूज्य दिगीशपूजनादि पूर्ववत्कुर्यात् ।
इति निष्क्रमणम् ।
अथ भूम्युपवेशनम् ।
पद्मपुराणे--
"पञ्चमे तु तथा मासे भूमौ तमुपवेशयेत् । |
रामेति श्रोतृसंबोधनम् । म इत्यनन्तरं गदत इति शेषः । म इत्यत्रापादानस्य शेषत्वविवक्षायां पष्ठी ।
उत्तरात्रितयं सौम्यं पुष्यर्क्षं शक्रदैवतम् ॥ |
सौम्यं मृगः । शक्रदैवतं ज्येष्ठा । वह्निदैवतमिति पाठे कृत्तिकाः । प्राजापत्यं रोहिणी । आश्विनमश्विनीनक्षत्रम् । मित्रभमनूराधानक्षत्रम् ।
मुहूर्तसंग्रहे--
"शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना । |
- तत्रैव--
"वराहं पूजयेद्देवं पृथिवीं च तथा द्विजः । |
तं बालम् । तत्रैव मण्डल एव ।
रक्षैनं वसुधे देवि सदा सर्वगतं शुभे । आयुष्प्रमाणं निखिलं निक्षिपस्व हरिप्रिये ॥ अचिरादायुषस्त्वस्य ये केचित्परिपन्थिनः ।
जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् ॥
- ↑ पूर्वोक्तानुसारेणेति क पुस्तकशोधितः पाठः ।