पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/८४

पुटमेतत् सुपुष्टितम्
८९२
[अन्नप्राशनम्]
भट्टगोपीनाथदीक्षितविरचिता--

 नारदः--

"जन्मतो मासि षष्ठे स्यात्सौरेणोत्तममन्नदम् ।
तदभावेऽष्टमे मासे नवमे दशमेऽपि वा ॥
द्वादशे वाऽपि कुर्वीत प्रथमान्नाशनं परम् ।
संवत्सरे वा संपूर्णे केचिदिच्छन्ति पण्डिताः" इति ॥

 सौरेण षष्ठेनेत्यन्वयः । न चाप्ययमेव नियमः ।

"बालान्नभोजनविधौ गुरुशुक्रमौढ्यबाल्यप्रयुक्तमशुभं त्वधिमासदोषः ।
नास्त्येव सावनविधाविह मासि षष्ठे युग्मे च मासि परतः शुभचन्द्रपक्षे"

 इति विधिरत्ने सावनमानेनापि षष्ठमासस्य विधानात् । शुभ इति चन्द्रविशेषणं चन्द्रानुकूल्यापेक्षणार्थम् । चन्द्रस्य पक्षः शुक्लपक्षः । तत्रापि परतः परस्मिन्पञ्चम्याः परभाग इत्यर्थः । नवममासस्तु स्त्रीविषयः ।

"नरस्यान्नाशने युग्मं स्त्रीणामन्नाशनेऽयुजम्" इति गर्गोक्तेः ।

 अयुजमिति पदच्छेदः ।

शङ्खलौगाक्षी--

"संवत्सरेऽन्नप्राशनं दन्तेषु जातेषु वा" इति ।

 देवलः--

"षष्ठे मास्यष्टमे वाऽथ पुंसां स्त्रीणां च पञ्चमे ।
सप्तमे मासि वा कार्यं नवान्नप्राशनं शुभम्" इति ॥

तिथीराह नारदः--

"पक्षयोरुभयोरुक्तं कृष्णे चान्त्यत्रिकं विना ।
अयुजस्तिथयः श्रेष्ठा नवमीपर्ववर्जिताः ॥
युग्मासु दशमी प्रोक्ता द्वितीया चान्नभोजने" इति ।

 अयुजो विषमाः । वारानाह कश्यपोऽन्नप्राशनं प्रकृत्य--

"सूर्यार्किभौमवारांश्च त्यक्त्वाऽन्यस्मिंस्तु वासरे" इति ।

 आर्किः शनिः । नक्षत्राण्याह बृहस्पतिः--

"पौष्णादितीन्दुहस्ताश्वित्वाष्ट्रवासववैष्णवाः ।
रोहिणीमैत्रतिष्याश्च वारुणं चोत्तरात्रयम् ॥
वायव्यं च शुभा ह्येतास्तारा अन्नाशने सदा" इति ॥

 श्रीधरीयेऽन्या अप्युक्ताः--

"आदित्यतिष्यवसुसौम्यकरानिलाश्विचित्राजविष्णुवरुणोत्तरपौष्णमित्राः ।
बालान्नभोजनविधौ दशमे विशुद्धे छिद्रां विहाय नवमीं तिथयः शुभाः स्युः" इति ।

 आदित्यं पुनर्वसू । वसवः श्रविष्ठाः । सौम्यं मृगशिरः । करो हस्तः । अनिलः स्वाती । अजो ब्रह्मा तन्नक्षत्रं रोहिणी । विष्णुः श्रवणः । वरुणः