अथ बालस्य दन्तसंघर्षदोषे तत्परिहारोपायः ।
मार्कण्डेयपुराणे--
"दन्ताकृष्टिः प्रसूतानां बालानां दशनस्थितः । |
बालानां दशनेषु स्थितः स दन्ताकृष्टिर्दुःसहस्याऽऽगमं कर्तुमिच्छुः पूर्वमतिसंघर्षं दन्तानां करोतीत्यर्थः । दुःसह इत्यलक्ष्म्या मृत्योश्च पुत्रस्तत्पौत्रो दन्ताकृष्टिः ।
तस्योपशमनं कार्यं सुप्तस्य सितसर्षपैः । |
मासं मासपर्यन्तम् ।
सुवर्चलौषधिस्नानात्तथा सच्छास्त्रकीर्तनात् । |
ब्रह्मसोचलीति भाषया बङ्गाले प्रसिद्धा । उष्ट्रकण्टकम् 'उण्टकटारिया' इति भाषया प्रसिद्धम् । खड्गः प्रसिद्धः । अस्थि गजदन्तादि शुच्यस्थि । खड्गास्थीत्येकमेव वा पदम् । तदा खड्गमृगास्थीत्यर्थः । क्षौमवस्त्रे बद्ध्वा तस्य कण्ठेऽवधारणाच्च संघर्षदोषापशमनं भवतीत्यर्थः ।
इति दन्तसंघर्षदोषपरिहारोपायः ।
अथ कटिसूत्रबन्धनम् ।
तच्च स्मृतौ--
"गृहस्थः कुरुते कर्म वैदिकं वाऽथ तान्त्रिकम् । |
अस्मादेव वचनादुपनयनात्प्राग्वैदिकतान्त्रिककर्मण्यनधिकारस्तावत्पर्यन्तं कटिबन्धने न दोष इति गम्यते । तच्चाऽऽश्वलायनोक्तम्--
"रौप्यं कार्पासजं हैमीं पट्टसूत्रकृतां तु वा । |
इति कटिसूत्रबन्धनम् ।
अथ चूडाकर्म ।
तत्रेदं गृह्यम्--"तृतीये वर्षे चूडाकर्माऽऽपूर्यमाणपक्षे पुण्ये नक्षत्रे" इति ।
अत्र मातृदत्त आह--"उदगयनमप्यत्राऽऽचाराद्ग्राह्यम्" इति ।
आश्वलायनेन तु स्पष्टमेवोक्तम्--
"उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः" इति । |