ऋतुत्रयं षण्मासाः । कुलं त्रिपुरुषम् ।
"पुरुषत्रयपर्यन्तं प्रतिकूलं स्वगोत्रिणाम् । |
प्रवेशादिस्वरूपमाह कात्यायनः--
"पुत्रोद्वाहः प्रवेशाख्यः कन्योद्वाहस्तु निर्गमः । |
वृद्धमनुः--
"एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः । |
तथाऽऽरम्भोत्तरं सूतके प्राप्ते संग्रहे--
"कूश्माण्डीभिर्घृतं हुत्वा गां च दद्यात्पयस्विनीम् । |
चूडाकरणे पक्षद्वयमुक्तं गृह्ये--
"उप्त्वा यथोदि(चि)तं चूडाः कारयन्ति यथर्षि वा" इति ॥ |
उप्त्वा वपनादनन्तरं यथोचितं यथाकुलधर्मं चूडाः कारयन्तीत्येकः पक्षः । यथार्षि यथाप्रवरम् । एकार्षेयस्यैका । द्व्यार्षेयस्य द्वे । त्र्यार्षेयस्य तिस्रः । पञ्चार्षेयस्य पञ्चेत्यपरः पक्षः । उप्त्वेतिवचनं छेदनमात्रं मा भूदित्येतदर्थम् । वस्तुतस्तु--उप्त्वेतिवचनं णिजन्तेन संबन्धार्थम् । तेन यश्चूडानां कारयिता पित्रादिः स एव वपनकर्तेति सिद्धं भवति । इदानीं तु तादृशशिक्षाया अभावाल्लोकविद्विष्टत्वाच्च समन्त्रकं चेष्टामात्रं कृत्वा नापितेनैव वपनं कारयन्ति शिष्टाः । क्षुरविषये विशेषमाह षड्गुरुशिष्यः--
"क्षुरस्य नित्यं लौहत्वात्ताम्रत्वाच्चेह लौहगीः । |
चौले भुक्तवतः प्रायश्चित्तमाह पराशरः--
"निर्वृत्ते चू[१]डाहोमे तु प्राङ्नामकरणात्तथा । |
अत्र ब्रह्मौदनाङ्गभोजनमिव चूडाद्यङ्गभोजनमेव निमित्तत्वेन विवक्षितम् ।
- ↑ क. ख. ङ. चूडहो ।