पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/14

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथैकदा कश्चिद्वालकस्तस्य भगिनी च क्रीडायै समुद्रस्य तीरं गतौ । ताभ्यां सह तयोः सारमेयोऽपि गत आसीत् । तीरं प्राप्य तावुभौ सिकताभिः क्रीडितुं प्रवृत्तौ । कुकुरश्च तयोरन्तिकं भूमौ निषण्ण आसीत् । ततः सा बाला सागरस्य जलमवलोक्य कुतूहलात्तप्रवेष्टुमैच्छत् । सहसैवोत्थाय साऽ लक्षितैव स्वभ्रात्रा सलिलं प्रविष्टा। प्रविष्टमात्रैव भयेन व्याकुला सोचैराक्रोशितुं प्राक्रमत ।

तस्या आक्रोशं श्रुत्वा स सारमेयः शीघ्रमधावदुदकं च प्राविशत् । तस्या वस्रान्तं मुखे धृत्वा तामाकृष्य सुरक्षितं तीरमानयत् । एवं तेन कुकुरेण तस्या बालिकायाः प्राणा रक्षिताः ।

(1) Separate the following words :- कचिच; अथैकदा; तावुभौ; सहसैवोत्थाय (2) Mention all the words which you find in this 1essorm for 'a dog' 11d 'water.' (3) How are the words सिकता and प्राण used in Samskrit ? (4) (Give all the forms of Imperfect of the follow ing roots : अस् to be, इष्, प्र-कम्, प्र-विशा, आ-नी. (5) (Give Sanskrit words for one, two, up-to ten . Samskrit :

  • A man has two hands, two legs and two

eyes; ' ' in the garden there are five mango trees, mine plantain trees and two bakul trees.