पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/15

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णश्लोकाः ।

सारमेयः, कुकुरः, शुनकः A dog. चतुष्पद (One having four legs; a quadrupeed. सिकता Sand. निषण Sat. अलक्षित Umseem.

५. संकीर्णश्लोकाः ।

वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ।। १ ।। यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति ॥ २ ॥ उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।। ३ ।। माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ ४ ॥ रूपयौवनसंपन्ना विशालकुलसंभवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ ५ ॥ शशिना च निशा निशया च शशी शशिना निशाया च विभाति नभः । पयसा कमलं कमलेन पय पयसा कमलेन विभाति सरः ।। ६ ।।

हन्ति Removes. तमस् Darkness . पुरुषकारः Manly exertion. सिध्यति Succeeds. पाठितः Taught. रूप० Possessed of beauty and youth. विशाल०Born of a moble family. निर्गन्धाः Having no smell. किंशुक A kind of flower. शशिन् The moon. पयस् Water. '