पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/16

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६. धेनुः । कुमारा इयं धेनुरस्ति । धेन्वाः कुकुर इव चत्वारः पादाः पुच्छमेकं च सन्ति । किंतु तस्या द्वे श्रृंगे स्तः । तृणं तस्या अन्नम् । सा स्वभावत एव सौम्या वर्तते । धेनूनां निवासस्थानं गोशालेति वदन्ति । साऽतीवोपयुक्ता लोकानाम् । तस्या दुग्धं हि लभ्यते। भारतवर्षीया जना धेर्नु देवतां मन्यन्ते । तस्याः पूजां च कुर्वन्ति । पुराऽऽसीद्वसिष्ठो नाम महर्षिः । तस्य शबला नामैका धेनुरासीत् । तां कान्यकुब्जाधिपतिर्विश्वामित्रो बलादपहर्तुमैच्छत् । ततस्तया धेन्वा स्वशरीरा न्म्लेच्छाः सृष्टाः । तैश्च विश्वामित्रः पराजितः । अहो महाप्रभावो धेन्वाः ।

(1) Fill in the blanks :- ( i ) सा स्वभावत एव - वतन्त । (ii) तस्या – लभ्यते । (iii) तस्य – नामैका धेनु (v) तैश्च – पराजितः । (2) Give Dat., Abl., (Gen. and Loc. singulars of