पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/19

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामचंद्रकथा । च चतुर्दश वर्षाणि न्यवसत् । धर्मात्मा राघवो जनस्थाने राक्षसानां चतुर्दश सहस्राण्यहन् । तदा तस्य भार्या जानकी रावणेनापहृता । भार्यावियोगेन दुःखितः स किष्किधां गत्वा सुग्रीवेण सह मैत्रीं कृतवान् । तत्र च वानरेन्द्रं वालिनं हत्वा सुग्रीवं राज्येऽभ्यषिञ्चत् । अनन्तरं समुद्रे सेतुं बद्धा वानरैः सह लङ्कां प्राविशत् । तत्र च रावणं नाम लङ्कशं युद्धे न्यधूदयत। अनन्तरं सीतामादाय पुष्पकविमानेनायोध्यानगरीं पुनः प्राप्तः । वसिष्ठेन राज्येऽभिषिक्तोऽसौ मेदिनीं धर्मेणापालयत् ।

EXCERCISES. (1) Separate the following words:- सहस्राण्यहन्; राज्येऽभ्यषिञ्चत्; सीतामादाय

(2) Fill in the blanks in the following sentences: ( i ) स पितृवचनात् – – च सह – गतः । (ii) तस्य – जानकी – अपहृता । (iii) स – हत्वा – राज्येऽभ्यषिञ्चत् । (3) (). छात्राः, रामचंद्रस्य कथा संक्षेपेण कथ्यताम्। धर्मात्मा Pious . जनस्थानं A 11ame of a 1ace where Rama. 1ived with Sita and Laxman. अपहृत (Carried away. मैत्री Friendship. सेतुः A bridge. विमानः-नं A balloon. मेदिनी The earth.