पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/20

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९. संकीर्णश्लोकाः । शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ।। १ ।। अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ।। २ ।। उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ।। ३ ।। परोक्षे कार्यहन्तारं प्रत्यक्ष प्रियवादिनम् । वर्जयेतादृशं मित्रं विषकुम्भं पयोमुखम् ॥ ४ ॥ दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ ५ ॥ साधोः प्रकोपिंतस्यापि मनो नायाति विक्रियाम् । न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ।। ६ ।। यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्था: स पुमॅॉलोके यस्यार्थः स हि पण्डितः ॥ ७ ॥ अन्तरम् [Difference. क्षणविध्वंसिन् Perishing in a moment निज (One's own. परः A stranger. लघुचेतसाम् Of low Iminded persons. उदारचरितानां Of 10ble persons . दुर्भिक्षं A farmine. राष्ट्रविप्लवः A change in the king dom. तिष्ठति Stands by, helps. परोक्षे In one's absence. कार्यहन्तृ One who destroys another's work. प्रत्यक्षे In one's presence. विषकुम्भः A pot containing poison. पयोमुखम् With milk at the