पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/21

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुद्रिकायाः प्राप्तिः ।

mouth. हालहालं विषं A deadly poison. प्रकोपित Exci ted; tortmented. विक्रिया A change. तापयितुं T० heat. तृणोल्का A torch of hay. यस्यार्थाः One who possesses wealth.

१०. मुद्रिकायाः प्राप्तिः । ( ततः प्रविशति इयालः पश्चाद्रक्षकौ पुरुषश्च ।) रक्षकौ—रे तस्कर, कथय कुत्र त्वयैषा मुद्रिका लब्धा । पुरुषः–प्रसीदत सुजनाः । अहमीदृशं कर्म न कदापि करोमि। प्रथमः—किं शोभनो ब्राह्मण इति मत्वा पारितोषिकं दत्तम् । पुरुषः–अहं जात्या धीवरोऽस्मि । द्वितीयः-रे शठ, किमस्माभिजतेिः पृष्टा । श्यालः-सूचक, कथयतु सर्वमनुक्रमेण । सूचकः---यथाज्ञापयति भती । पुरुषः–एकस्मिन् दिवसे रोहितो नाम मत्स्यो मया खण्डशः कृतः। तस्योदरे मयैषा मुद्रिका दृष्टा । तस्या विक्रयाय दर्शयन् गृहीतो भवद्भिः । मारयत वा मुश्चत वा । अयमस्या अगमस्य वृत्तान्तः । शयालः— जानुक, निःसंशयं धीवर एवैषः । भवतु । राजकुलमेव गच्छामि । तावप्रतिपालयेमं नरम् । (गच्छति इयालः ) प्रथमः- जानुक, स्फुरता मम हस्तावस्य वधाय । द्वितीयः-नैतदुचितं कस्यापि प्राणान् कारणं विनापहर्तुम् । प्रथमः-जानुक, किमित्यस्मद्भर्ता नाद्याप्यायातः । द्वितीयः–(विलोक्य) एष आवयोः स्वामी इत एवागच्छति ।