पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/22

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४

श्यालः-(प्रविश्य) सूचक, मुचैनं धीवरम् । प्रथमः---यथा भर्ती भणति । ' . ) द्वितीयः–एष यमसदनं प्रविश्य प्रतिनिवृत्तः । (पुरुषं मोचयति ।) इयालः–एष प्रसादोऽपि तस्मै राज्ञा दत्तः । (पुरुषाय द्रव्यं यच्छति ) पुरुषः–(सप्रणामं गृहीत्वा) भर्तः, अनुगृहीतोऽस्मि । जानुकः-भर्तः, तस्मिन्नडुलीयके यद्रत्नं तन्महाराजस्य रुचयेऽभव दिति मन्ये । श्यालः—नहि, नहि। अङ्गुलीयकं दृष्ट्वा भर्ता निजं प्रियजनमस्मरत् । अनन्तरं तस्य नेत्राभ्यामश्रूण्यगलन् । सूचकः-सेवितं नाम भत्र । जानुकः—ननु भण अस्य धीवरस्य कृते। (इति पुरुषं मत्सरेण पश्यति) पुरुषः-अस्यार्ध युष्माकं भवतु । जानुकः-एतद्युक्तमेव । श्यालः–धीवर, त्वमिदानीं मे प्रियवयस्यः संजातः । एहि, गच्छामो वयम् । (इति सर्वे गच्छन्ति) Note :- A dialogue for boys to act. मुद्रिका A ring. प्र-सद् To be pleased. खण्डशः कृतः Cut into pieces. विक्रयः Sale. प्रति-पा (Causal) To guard. अनु-ग्रहू To favour. रुचिः Liking. कृते (gov. gen.) For the sake of. आगमः (Obtaining.