पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/23

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११. विवादो विनाशाय ।

एकदा कश्चित्क्षुब्धकः पक्षिणामर्थे भूमौ पाशमयोजयत् । क्षणादेव तस्मिन्द्वौ शकुनौ बद्भावभवताम् । किंतु तावुभौ तं पाशमादायोदडयेताम् अनिर्विण्णोऽसौ व्याधस्तावन्वधावत् । तद्दृष्टा कश्चित्पुरुषस्तं शाकुनिकम पृच्छत् । आकाशेन प्लवमानौ खगौ किमर्थ त्वमनुधावसीति । तदा तेनोक्तम् । एतौ विहगौ सहितौ मम पाशं हरतः । यदा तैौ कलहं करि ष्यतस्तदा मम वशं गमिष्यत इति । तस्मिन्नेव क्षणे तौ शकुनौ कलहमतु प्राप्तौ पृथिव्यां न्यपतताम् । व्याधस्तु तावुपसृत्यागृहात् । विवादो विनाशाय ।

एवं ये जना मिथो विवादं गच्छन्ति ते शकुनाविव विनाशं गच्छन्ति । (1) () Separate the following words: कश्छुिब्धकः; क्षणादेव,: तेनोक्तम् (b) Bxplain the following sandlhi : गमिष्यत इति ।