पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/27

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपहृतगोधनं ब्राह्मणाय प्रत्यर्पणम् । कुन्तीपुत्रो धनञ्जयस्तस्य विप्रस्य तानि वाक्यान्यशृणोत्। भीतो मा भवेति स तं द्विजमभाषत । किंतु तेषामायुधान्यासंस्तत्रासीद्धर्मराजः कृष्णया सह । अतोऽसौ सम्प्रवेशायाशक्त आसीत् । तदासौ कौन्तेयो दुःखितोऽचिन्तयत् । यद्यस्य विप्रस्याद्य रक्षणं न करोमि तर्हि महानधर्मो भवेत् । अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम । किंतु शरीरस्य विनाशेन धर्म एव श्रेष्ठः । इति विनिश्चित्यानुप्रविश्य धनुरादाय च ब्राह्मणं प्रत्यभाषत । ब्राह्मणाऽऽगम्यतां शीघ्र यावत्ते क्षुद्रा न दूरे गता इति । स महाबाहुरनुसृत्य तांश्चौरानवजित्य तद्भोधनं तस्मै ब्राह्मणाय च प्रत्यप्र्य. पुरमागच्छत् ।

(1) () Separate the following words: वाक्यान्यशृणोत् तेषामायुधान्यासंस्तत्रासीद्धर्मराज तांश्चौरानजित्य । (6) Explain the following'sa11dhis: - अशक्त आसीत् । धर्म एव । गता इति । (2) Fill in the blanks :- ( i ) केचित्तस्करा ब्राह्मणस्य - अपाहरन् । (ii) यद्यस्य –रक्षणं –करोमि –महान् -- भवेत्। (3) Explain the forms :- आगम्य, ह्रियते, धावत, विनिश्चित्य, आगम्यताम्, प्रत्यप्र्य तस्करः A thief. गोधनं Wealth in the form of Cows. प्रसह्य By force. कृष्णा A