पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/28

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० ! 11ame of द्रौपदी. विनिश्चित्य Having resolved. महाबाहुः (One having long arms. प्रत्यप्ये Having restored.

१५. यूकामत्कुणयोः कथा । राज्ञः कस्यापि शयने चिरमासीदलक्षिता । यूका कुतश्चिदागत्य नाम्ना मन्दविसर्पिणी ।। १ ।। अकस्मात्तत्र चोपेत्य कुतोऽपि पवनेरितः। विवेश शयनीयं तट्टीटिभो नाम मत्कुणः ।। २ ।। मन्निवासमिमं कस्मादागतस्त्वं व्रजान्यतः । इति मन्दविसर्पिण्या स दृष्टा जगदे तया ।। ३ ।। अपीतपूर्व पास्यामि राजासृक्तप्रसीद मे । देहीह वस्तुमिति तामवादीत्सोऽपि टीटिभः ।। ४ ।। ततोऽनुरोधादाह स्म सा तं यद्येवमास्स्व तत् । किंत्वस्य राज्ञो नाकाले दंशो देयस्त्वया सखे । तच्छूत्वा टीठिभः सोऽत्र तथेत्युक्त्वा व्यतिष्ठत ॥ ५ ॥ नत्तं शय्याश्रितं तं च नृपमाशु ददंश सः । उत्तस्थौ च ततो राजा हा दष्टोऽस्मीति ब्रुवन् ॥ ६ ॥ ततः पलायते तस्मिस्त्वरितं मत्कुणे शठे । ': विचित्य राजभृत्यैः सा लब्धा यूका व्यपाद्यत ।। ७ ।।