पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/30

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बालः-जुम्भरव सिंह, दन्तांस्ते गणयिष्ये । प्रथमा- अविनीत, किं नः सत्त्वानि पीडयसि । हंत, वर्धते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि । द्वितीया तपस्विनी–एषा खलु केसरिणी तत्रोपद्रवं करिष्यति यदि तस्याः पुत्रकं न मुञ्चसि । बालः–( सस्मितम्) अहो, बलीयः खलु भीतोऽस्मि । राजा---किं नु खलु बालेऽस्मिन् स्निह्यति मे मनः । प्रथमा- वत्स, एनं बालमृगेन्द्रं मुञ्च । अपरं क्रीडनकं तुभ्यं यच्छामि। बालः-कुत्र, यच्छ मे तत् । द्वितीया-सुव्रते, गच्छ त्वम्, मदीय उठजे मृत्तिकामयूरस्तिष्ठति तमस्योपहर । ।