पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/32

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७, जरासंधजन्मवृत्तान्तः । (प्रथमो भागः) आसीत्पुरा बृहद्रथो नाम मगधाधिपतिः । तस्य द्वे भार्ये आस्ताम् । किंतु प्रजाहीनश्चासौ राजा । एकदा महात्मनो गौतमस्य पुत्रश्चण्डकौशिको नाम यदृच्छयाऽऽगत इत्यशृणोत् । ततः स राजा पत्नीभ्यां सह तमुपागम्य पर्यंतोषयत् । परितुष्टोऽसौ सत्यवागृषिस्तं नृपमवदत् । हे राजेन्द्र, परितुष्टो ऽस्मि, वरं वरयेति । तदा स नृपतिरभाषत । भगवन्, किं संततिरहितस्य मे वरेण, राज्यमुत्सृज्य तपोवनाय प्रस्थितोऽहमिति ।

ि तच्छूत्वाऽम्रवृक्षस्यच्छायायां समुपविष्टोऽसौ मुनिध्र्यानपरोऽभवत् । तदा तस्योपविष्टस्य मुनेरुत्संगे न्यपतदेकमाम्रफलम् । तदृहीत्वा मुनिश्रेष्ठो राज्ञे दत्त्वावदच । गच्छ राजन्कृतार्थोऽसि, अधुना निवर्तस्व नराधिपे । (1) Separate the following : प्रजाहीनश्चासौ; यदृच्छयाऽऽगतः; सत्यवागृषिस्तं; वरयेति; नृपतिरभाषत