पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/33

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(2) Fill in the blanks :- ( i ) तस्य द्वे – आस्ताम् । (ii) किंतु – चासौ राजा ।

(3) Explain the following : - भार्ये आस्ताम् । पत्नीभ्यां सह । किं मे वरेण । राज्ञे दत्त्वा । संततिरहितः, प्रजाहीनः Having no issue. यदृच्छया By chance. पर्यंतोषयत् Satisfied. सत्यवाक् A truth-speaker. वरः A b00n. उत्संगः A lap. कृतार्थ Having gained one's object. १८, जरासंधजन्मवृत्तान्तः । (द्वितीयो भाग:) मुनेर्वाक्यं श्रुत्वा स नृपः स्वगृहं गतः । तत्फलं च द्वाभ्यां पत्नीभ्यां स प्रायच्छत् । ते तदाम्रफलं द्विधा कृत्वाऽभक्षयताम् । तत्फलभक्षणात्तयोर्गर्भ समभवत् । श्रुत्वा च तत्स नृपतिः परं सुखमलभत। अथ गच्छता कालेन ते उभे शरीरशकले प्राजायेताम् । तदवलोक्य खिन्ने ते भगिन्यौ तच्छकले अत्यजताम् । तयोर्धात्र्यौ ते गृहीत्वा रथ्यायामत्यजताम् । ते च शकले जरा नाम राक्षसी प्रगृह्य समयोजयत् । समानीतमात्रे तु ते एकमूर्तिधरो वीरः कुमारः समपद्यत । सा तु राक्षसी तं बालमुपादाय राजानं च गत्वाभाषत । हे बृहद्रथ, प्रगृह्यतामसैौ तव सुतः । तव पत्नीद्वये जातः किंतु धात्रीजनेन रथ्यायां परि त्यक्तोऽसौ । स च मया परिरक्षित इति ।