पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/38

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०

२१. शकुन्तलाजन्मवृत्तान्तः । राजा दुष्यन्तः–वयं तावद्भवत्योः सखीगतं किमपि पृच्छामः । सख्यौ—अनुग्रह एवेयमभ्यर्थना ।

संस्कृतकथासंग्रहः

राजा–भगवान्काश्यपोऽविवाहित इति प्रसिद्धम् । इयं च युवयोः सखी शकुन्तला तस्यात्मजेति कथमेतत् । अनसूया-शुणोत्वार्यः । अस्ति कोऽपि कौशिक इति महाप्रभावो राजर्षिः । राजा-अस्ति । श्रूयते । अनसूया-तमावयोः प्रियसख्याः िपतरमवगच्छ। पिरत्यक्तायाः शरीर संवर्धनादिभिस्तातकाश्यपोऽस्याः पिता । राजा–परित्यक्तशब्देन जनितं मे कौतूहलम्। आमूलाच्छ्रोतुमिच्छामि। अनसूया-शृणोत्वार्यः । गौतमीतीरे पुरा किल स राजर्षिरुग्रं तप