पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/42

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ संस्कृतकथासंग्रहः यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ।। ६ ।। सत्यं शौर्य दया त्यागो नृपस्यैते महागुणाः । एतैस्त्यक्तो महीपालः प्राप्तोति खलु वाच्यताम् ॥ ७ ॥ लालयेत्पञ्च वर्षाणि दश वर्षाणि ताडयेत् । प्राप्त तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् । ८ । । संशयमनारुह्य Without running a risk. भद्रम् Welfare. संहतिः Union. कार्यसाधिका Accomplishes the desired (object. गुणत्वमापन्न Turned into a rope. मत्तदन्तिन् An intoxicated elephant. अभिषेकः Corormation ceremony. संस्कारः A Sacred rite. मृगेन्द्रता Sovereignty over the beasts. विक्रमार्जित राज्यम् A kingdom acquired by valour. स्थाने नियोज्यन्ते Set on the proper places. चूडामणिः A Crest jewel. नूपुरं An arnklet. लोचनाभ्यां विहीन (One who is blind. दर्पणः . :(Charity. (Censure. A mirrorत्यागः वाच्यता लालयेत् 3rd Pers. Sing. Pot. of लल 10th conj. or causal (लालयति-ते To fondle). २४. सुन्दापसुन्दकथा । (प्रथमो भागः) पुरा निकुम्भो नाम बलवान्दैत्येन्द्रोऽभवत् । तस्यास्तां भीमपराक्रमौ द्वौ पुत्रौ सुन्दोपसुन्दौ नाम । त्रैलोक्यविजयार्थाय तावुग्रं तपोऽतपताम् । तयोस्तपसा तुष्टः पितामहस्तावभिगम्य वरं वृणुतमित्यभाषत । ताववदताम् ।