पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/46

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ राजा-यथाह वसन्तकस्तथैवैतत् । वासव०–(फलकं निर्दिश्य) आर्यपुत्र, एषाऽपि याऽपरा तव समीप आलिखिता तत्किमार्यवसन्तकस्य नैपुण्यम् । राजा–देवि, अलमन्यथा शङ्कया । इयं हि कापि कन्यका स्वहृदयेनैव परिकल्प्यालिखिता । न तु पूर्वं दृष्टा। विदू०–भवति, सत्यं सत्यम् । शपे ब्रह्मसूत्रेण यदीदृशी कदाप्यस्मा भिदृष्टपूर्वा । वासव०- आर्यपुत्र, मम पुनरेतचित्रफलकं प्रेक्षमाणायाः शीर्षवेदना समुत्पन्ना । तद्वच्छाम्यहम् । (प्रस्थिता) (1) Explain the following Sandhis : चित्रफलक आलिखितम्; समीप आलिखितम् (2) Explain the following forms : प्रसार्य, निरूप्य, अपवार्य, गृहीत्वा, भवति, परिकल्प्य, प्रेक्षमाणायाः, समुत्पन्ना, प्रस्थिता (3) Write a grammatical note on : अल शङ्कया; शपे ब्रह्मसूत्रेण. हस्तौ प्रसार्य Having stretched forth hands. कक्षान्तर An arm1-pit. चित्रफलकः A picture-board. आलिखित Painted, drawn. आलेख्यचातुर्ये Skill in drawing. शपे ब्रह्मसूत्रेण (1) swear by the sacred thread. शीर्षवेदना Headache.