पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/47

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७, लङ्कादहनम् । स्वभ्रातुर्बिभीषणस्य वचनं श्रुत्वा दशग्रीव इदं वचनमब्रवीत् । सम्यगु तं हि भवता । दूतवधः खलु निंद्यः । अतोऽस्य कपेर्वधायान्य उपायोऽ वश्यं क्रियताम् । कपीनां किल लाङ्गलमिटं भवति भूषणम् । तदस्य दीप्यतां शीघ्रम् । तेन दग्धेनासौ वानरो गच्छतु । तस्य सर्वे बांधवाः सुहृज्जनाश्च दीनमङ्गवैरूप्यकर्शितं तं पश्यन्विति ।

  • ५६ .

१७ } '। । // } तस्य तद्वचनं श्रुत्वा राक्षसाः क्रोधाभिभूतास्तस्य लाङ्गलं जीणैः कार्या सिकैः पटैर्वेष्टन्ते स्म । तैलेन परिषिच्याथ तेऽग्रिं तत्रोदधादयन् । ततस्ते राक्षसा हृष्टाः कपिकुञ्जरं परिगृह्य प्रागच्छन् । दह्यमाने च लाङ्गले स वानरोऽचिन्तयत् । प्रदीप्तोऽग्रियं कस्मान्न मां दहति । अथवा, राघवस्य तेजसा पितुश्च मम सख्येनासौ पावको न मां दहतीति । पुनश्च कथमस्य बन्धनस्येहैव प्रतिक्रिया युक्ता भवेत्। इति पुन र्विचिन्त्य स महाकपिः पाशांश्छित्वा वेगेनोदपतत् ।