पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/49

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नायकस्यौदार्यम् । दृष्टद्धा–पुत्रक, पुनरप्येतान्यक्षराणि भण । नायकः--किं पुनरभिहितेन । ननु कर्मणैव संपादयामि । ४१ वृद्धा-पुत्रक, चिरं जीव । नायकः---अम्ब, प्रत्यर्पय मम वध्यचिह्नम् । एतत्प्रावृत्य ते पुत्रस्य जीवितरक्षणार्थ विनतासुताय स्वदेहमाहारयितुं यच्छामि । शङ्खचूडः–अहो, जगद्विपरीतमस्य महासत्वस्य चेतः। यदर्थमयं ताक्ष्र्यः प्रतिदिनं नागानत्ति तानेव प्राणान्परार्थे तृणमिव त्यजति । (नायकमुद्दिश्य) भो महात्मन्, दर्शिता खलु त्वयाऽऽत्मप्राणप्रदानव्यसवायेन मयि दयालुता । तदलं निर्बन्धेन । नायकः-कुमार शङ्खचूड, परहितं साधयितुं प्रयतमानं किमवरुणसि माम्। प्रसीद, दीयतां मे वध्यचिह्नम्। शङ्ख०--किं वृथा प्रयासेन । अथानुकम्पनीया वयं तदियं माता न परित्यजति जीवितं तथाभ्युपायश्चिन्त्यताम् । नायकः—ननु चिन्तित एवोपायः । स च त्वदधीनः । शङ्ख०- क इव । नायकः---यदि जीवन्तीं मातरमिच्छसि तद्रक्षात्मानं ममासुभिः । अयमेवोपायः । तदर्पय वध्यचिह्नम् । ( ततः प्रविशति सह वाससा कञ्चुकी ) कैचु०-इदं रक्तांशुकयुगलं देव्या प्रेषितम् । तदेतत्परिधत्तां कुमारः ।