पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/55

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हनुमत्प्रत्ययार्थ सीता स्ववृत्तान्तं वर्णयति । (2) (a) Write a note on the following : खेलनाद्विरमत । (b) Mark the different words used in this 1essorm for : ४७. A boy, 2. fr(0, a Stone. (3) बालका लिख्यतां ताप्तर्यमस्याः कथायाः । भेकः, दर्दूरः, मंडूकः A frog. पाषाणः, उपलः, शिला () दृषद् (, ) A stone. वि-रम् (2.) to stop. ३. हनुमत्प्रत्ययार्थ सीता स्ववृत्तान्तं वर्णयति । उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम् । स्नुषा दशरथस्याहं शत्रुसैन्यप्रणाशिनः ।। १ ।। दुहिता जनकस्याहं वैदेहस्य महात्मनः । सीतेति नाम्रा चोक्ताहं भार्या रामस्य धीमतः ॥ २ ॥ ततस्रयोदशे वर्षे राज्ये चेक्ष्वाकुनन्दनम् । अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ॥ ३ ॥ तस्मिन्संध्रियमाणे तु राघवस्याभिषेचने । कैकेयी नाम भर्तारमिदं वचनमब्रवीत् ॥ ४ ॥ न पिबेयं न खादेयं प्रत्यहं मम भोजनम् । एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।। ५ ।। यत्तदुतं त्वया वाक्यं प्रीत्या नृपतिसत्तम । तचेन्न वितथं कार्य वनं गच्छतु राघवः ।। ६ ।।