पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/58

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एतत्काव्यं कंठस्थं कर्तुमस्मदुरुणा वयं सर्वे छात्रा आदिष्टाः । येन तदस्खलितं पठ्येत तस्मै पारितोषिकं देयमित्यभिहितं शिक्षकेण । एतत्कर्तुं सर्वथाऽक्षमोऽस्म्यत

एव रुद्यते मया । इत्युक्ता साऽभाषत । कथमक्षमोऽसीतेि ।

तदा तेन शिशुना निगदितम् । तत्काव्यमतिदीर्घ कठिनं च । अपि च, सर्वे वयस्या 'मन्दमतिर्नारायण' इत्युक्त्वा मामुपहसन्ति । एतन्निशम्य सा स्थविरा स्त्री सस्नेहमवदत् । भो वत्स, मन्दोऽसीति तेषां वचनमवगणय्य, सर्वथा दृढनिश्चयेन वर्तितव्यम् । तेन ध्रुवा सिद्रिर्भवेदिति। भित्तिकामारोहन्तं कमपि शंबूकं स्वाङ्गुल्या निर्दिश्य सा पुनरभाषत, 'अवलोकयेमं कोषस्थम् । कथं स मन्दं मन्दं स्वमार्गमाक्रमति । अचिरा देव स भित्तिशिखरमारोहेत् । तथैव त्वया । प्रयतितव्यं येनान्ते सफलोद्यमो भविष्यसि । यदा यदा च त्वं विगलितधैर्यो भविष्यसि तदा तदा मनसि चिन्तयेमं भित्तिमारोहन्तं शंबूकम्' । इत्यभिधाय सा जरठा गता ।

तस्या उपदेशानुसारेण स्वपाठं पठितुं निश्चयः कृतस्तेन कुमारेण । अन्ते च स दिवसः संप्राप्तो यदा गुरुः सर्वान्कुमारांस्तत्काव्यं पठितुं क्रमशः आदिशत् । पञ्चषाणां कुमाराणां पठनानन्तरं नारायणस्य वारः समायातः । तस्मिनुत्थितमात्र एव सर्वे बालास्तत्स्खलनभीत्या प्रोच्चैर्व्यहसन् । किंतु नारायणेन स्तोकमपि प्रमादमकृत्वा स्वपाठः पठितः । तच्छूत्वा, 'साधु नारायण साधु' इत्युक्त्वा गुरुणा प्रहृष्टेन मनसा तस्मै पारितोषिकं समर्पितम् । अतो बालका मनस्यवधारयैतां संस्कृतोक्तिम् । मन्दोऽप्यविरतोद्योगः सदा विजयभाग्भवेदि'ति ।