पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/60

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कायः संनिहितापायः संपदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ ३ ॥ विस्मयः सर्वथा हेयः प्रत्यूहः सर्वकर्मणाम् । तस्माद्विस्मयमुत्सृज्य साध्ये सिद्धिर्विधीयताम् ॥ ४ ॥ : {.. : अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जित कृतप्रयत्नोऽपि गृहे न जीवति ॥ ५ ॥ मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः । धृष्टःपार्थे वसति नियतं दूरतश्चाप्रगल्भः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ६ ॥ लाङ्गूलचालनमधश्चरणावपातं भूमौ निपत्य वदनोंदरदर्शनं च । श्रा पण्डदस्य कुरुत गजपुङ्गवस्तु | धीरं विलोकयति चाटुशतैश्च भुङ्क्त ॥ ७ ॥ बलवानपि निस्तेजाः कस्य नाभिभवास्पदम् । निःशङ्क दीयते लोकैः पश्य भस्मचये पदम् ॥ ८ ॥ हीनसेवा न कर्तव्या कर्तव्यो महदाश्रयः । पयोऽपि शौण्डिकीहस्ते वारुणीत्यभिधीयते ॥ ९ ॥ यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः । श्वा यदि क्रियते राजा तकि नाश्चात्युपानहम् ॥ १० ॥