पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/62

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततो ब्रह्मणाभिहितम् । एतान्वरान् प्राप्स्यसि त्वमसंशयम् । इत्युक्त्वा ब्रह्मा ब्रह्मलोकं गतः ।


(II) - वरदानेन दर्पितो हिरण्यकशिपुर्दैत्यः सर्वाः प्रजाः पीडयितुं प्राक्रमत । त्रैलोक्यं वशमानीय न्यवसद्दानवो स्वर्गे । तेन दैत्येन्द्रेणातिपीडिताः सुराः सर्वे पितामहं समासाद्य खिन्ना प्राञ्जलयोऽनुवन् । भगवन्, त्रायस्व न इहागतान्, महद्भयं विद्यते नोऽस्मा ब्रह्माभाषत । मा भयं कार्य युष्माभिः । भगवान् विष्णुस्तं हनिष्यत्येव । इति पितामहवचः श्रुत्वा ते सर्वे क्षीरोदधिं प्रति गता देवेशमब्रुवंश्च । भगवन् । त्रायस्वास्मानद्य हिरण्यकशिपोर्वधात्। हे सुरोत्तम, वयं त्वां शरणमागता इति । देवानां वचः श्रुत्वा विष्णुर्वक्तुं प्राक्रमत । भयं त्यजतामरा अभयं वो ददाम्यहम् । वरदानेन गर्वितं दानवेन्द्रं निहन्यहम् । तस्माद्विबुधाः, स्वस्थानं