पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/64

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतकथासंग्रहः गुरुवाक्याद्भासं समुद्दिश्यातिष्ठत् । मुहूर्तादेव द्रोणस्तमिदं वचनमब्रवीत् । नृपात्मज, पश्यस्येनं त्वं दुमाग्रस्थं भासम् ? ! इत्याकण्यं युधिष्ठिरः पश्यामी त्येवमाचार्य प्रत्यभाषत । पुनश्च द्रोणस्तमवदत् । अथ वृक्षमिमं मां भ्रातृन्वा प्रपश्यसि ? । स कौन्तेयस्तमुवाच । पश्याम्येनं वनस्पतिं भवन्तं तथा भ्रत्रात् न्भासं चेति । असंतुष्टो द्रोणस्तम्पसर्पत्यवदत् । ततः स महायशा दुर्योधनादीन्धा र्तराष्ट्रान् क्रमशः पर्यपृच्छत् । ते च सर्वे 'पश्याम' इत्यब्रुवन् । (द्वितीयच्छेदः ) ततः स्मयमानो द्रोणो धनञ्जयमभ्यभाषत । त्वयेदानीं प्रहर्तव्यमेत लक्ष्य, विलोक्यताम् । मद्वाक्यसमकालं ते मोक्तव्यो भवेच्छरः। पुत्र, कार्मुकं वितत्य मुहूर्तकं तावतिष्ठ । एवमुक्तः सव्यसाची भासं समुद्दिश्य स्थितः । मुहूर्तीदेव तं द्रोणः समभाषत । पश्यस्येनं दुमस्थितं भासं मामपि चार्जुन । पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत । न तु वृक्षं भवन्तं वा पश्या मीति । ततः प्रीतमना द्रोणस्तं पुनः प्रत्यभाषत । यद्येनं भासं पश्यसि तर्हि पुनहि किं पश्यसीति । भासस्य शिरः पश्यामि न तु गात्रमिति सोऽब्रवीत् । अर्जुनेनैवमुक्तो द्रोणो हृष्टो मुञ्चस्वेति पार्थमब्रवीत् । ततः स पाण्डवस्तस्य शिरो निशितेन बाणेन उत्कृत्य भूमौ न्यपातयत्। । ( 1 ) Explain the forms :- आरोप्य, निपात्यताम्, गृहीत्वा, स्मयमानः, प्रहर्तव्य, उत्कृत्य. (2) Change the voice of the following :- ( i ) असौ द्विजवरः प्रथमं युधिष्ठिरमवदत् ।